ठञधिकारप्रकरणम्

अथ ठञधिकारः

प्राग्वतेष्ठञ्॥ लसक_११४६ = पा_५,१.१८॥
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते॥

तेन क्रीतम्॥ लसक_११४७ = पा_५,१.३७॥
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥

सर्वभूमिपृथिवीभ्यामणञौ॥ लसक_११४८ = पा_५,१.४१॥

तस्येश्वरः॥ लसक_११४९ = पा_५,१.४२॥
सर्वभूमिपृथिवीभ्यामणञौ स्तः। अनुशतिकादीनां च। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्॥ लसक_११५० = पा_५,१.५९॥
एते रूढिशब्दा निपात्यन्ते॥

तदर्हति॥ लसक_११५१ = पा_५,१.६३॥
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥

दण्डादिभ्यो यत्॥ लसक_११५२ = पा_५,१.६६॥
एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥

तेन निर्वृत्तम्॥ लसक_११५३ = पा_५,१.७९॥
अह्ना निर्वृत्तम् आह्निकम्॥

इति ठञो ऽवधिः। (प्राग्वतीयाः)॥ १०॥