धातूनां प्रकार: ।

 धातु: त्रेधा भवति । 

1- सकर्मकधातु:
2- अकर्मकधातु:
3- द्विकर्मकधातु: च


1- सकर्मकधातु: - येषां क्रियाणां फलं व्‍यापाराश्‍च भिन्‍न-भिन्‍नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्‍यन्‍ते । (फलव्‍यधिकरणव्‍यापारवाचकत्‍वं सकर्मकत्‍वम्) ।  साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्‍यादि ।

2- अकर्मकधातु: - यस्‍य फलं व्‍यापाराश्‍च एकस्मिनाश्रये एव तिष्‍ठति तदकर्मकमिति उच्‍यते ।  (फलसमानाधिकरणव्‍यापारवाचकत्‍वम् अकर्मकत्‍वम्) ।
  • सकर्मकधातु: यदि स्‍व अर्थं परित्‍यज्‍य अपरस्‍य अर्थस्‍य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी व‍हति ।
  • यदि कर्मस्‍य धात्‍वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति ।  यथा - गोपाल: नृत्‍यति ।
  • यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति ।
  • कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । 
हितात् न य: संश्रृणुते स किं प्रभु:
धातोरर्थान्‍तरे वृत्ते: धात्‍वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।।
अधोलिखितार्थक्रिया: अकर्मक भवन्ति ।

लज्‍जासत्‍तास्थितिजागरणं वृद्धिक्षयभयजीवनमरणम्
शयनक्रीडारुचिदीप्‍त्‍यर्थं धातुगणं तमकर्मकमाहु: ।।

3- द्विकर्मकधातु: - यासां क्रियाणां कर्मद्वयं भवति ता: क्रिया: द्विकर्मकक्रिया: भवन्ति ।
दुह्याच् पच् दण्‍ड रुधि प्रच्छिचिब्रू शासुजिमथमुषाम् 
कर्मयुक्स्‍या‍दकथितं तथा नी हृ कृष् वहाम् ।।

इति