ण्यन्तप्रक्रिया

 अथ ण्यन्तप्रक्रिया


स्वतन्त्रः कर्ता॥ लसक_७०१ = पा_१,४.५४॥
क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥

तत्प्रयोजको हेतुश्च॥ लसक_७०२ = पा_१,४.५५॥
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्॥

हेतुमति च॥ लसक_७०३ = पा_३,१.२६॥
प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्। भवन्तं प्रेरयति भावयति॥

ओः पुयण्ज्यपरे॥ लसक_७०४ = पा_७,४.८०॥
सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः॥ अबीभवत्॥ ष्ठा गतिनिवृत्तौ॥

अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ॥ लसक_७०५ = पा_७,३.३६॥
स्थापयति॥

तिष्ठतेरित्॥ लसक_७०६ = पा_७,४.५॥
उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्॥ घट चेष्टायाम्॥

मितां ह्रस्वः॥ लसक_७०७ = पा_६,४.९२॥
घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ। घटयति॥ ज्ञप ज्ञाने ज्ञापने च॥ ज्ञपयति। अजिज्ञपत्॥

इति ण्यन्तप्रक्रिया