विष्णुस्मृतिः/अष्टत्रिंशत्तमोऽध्यायः

ब्राह्मणस्य रुजः करणं । । ३८.१ । ।


अघ्रेयमद्ययोर्घ्रातिः । । ३८.२ । ।

जैह्म्यं । । ३८.३ । ।

पशुषु मैथुनाचरणं । । ३८.४ । ।

पुंसि च । । ३८.५ । ।

इति जातिभ्रंशकराणि । । ३८.६ । ।

जातिभ्रंशकरं कर्म कृत्वान्यतमं इच्छया ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यं अनिच्छया । । ३८.७ । ।