पूर्वकृदन्तप्रकरणम्

 अथ पूर्वकृदन्तम्


ण्वुल्तृचौ॥ लसक_७८७ = पा_३,१.१३३॥
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

युवोरनाकौ॥ लसक_७८८ = पा_७,१.१॥
यु वु एतयोरनाकौ स्तः। कारकः। कर्ता॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ लसक_७८९ = पा_३,१.१३४॥
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥

इगुपधज्ञाप्रीकिरः कः॥ लसक_७९० = पा_३,१.१३५॥
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

आतश्चोपसर्गे॥ लसक_७९१ = पा_३,१.१३६॥
प्रज्ञः। सुग्लः॥

गेहे कः॥ लसक_७९२ = पा_३,१.१४४॥
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

कर्मण्यण्॥ लसक_७९३ = पा_३,२.१॥
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

आतो ऽनुपसर्गे कः॥ लसक_७९४ = पा_३,२.३॥
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणो ऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम् ? गोसन्दायः। (वा.) मूलविभुजादिभ्यः कः। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणो ऽयम्। महीध्रः। कुध्रः॥

चरेष्टः॥ लसक_७९५ = पा_३,२.१६॥
अधिकरणे उपपदे। कुरुचरः॥

भिक्षा सेनादायेषु च॥ लसक_७९६ = पा_३,२.१७॥
&न्ब्स्प्॑भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥

कृञो हेतुताच्छील्यानुलोम्येषु॥ लसक_७९७ = पा_३,२.२०॥
एषु द्योत्येषु करोतेष्टः स्यात्॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥ लसक_७९८ = पा_८,३.४६॥
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

एजेः खश्॥ लसक_७९९ = पा_३,२.२८॥
ण्यन्तादेजेः खश् स्यात्॥

अरुर्द्विषदजन्तस्य मुम्॥ लसक_८०० = पा_६,३.६७॥
अरुषो द्विषतो ऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

प्रियवशे वदः खच्॥ लसक_८०१ = पा_३,२.३८॥
प्रियंवदः। वशंवदः॥

अन्येभ्यो ऽपि दृश्यन्ते॥ लसक_८०२ = पा_३,२.७५॥
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

नेड्वशि कृति॥ लसक_८०३ = पा_७,२.८॥
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

विड्वनोरनुनासिकस्याऽत्॥ लसक_८०४ = पा_६,४.४१॥
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

क्विप् च॥ लसक_८०५ = पा_३,२.७६॥
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। बाहभ्रट्॥

सुप्यजातौ णिनिस्ताच्छील्ये॥ लसक_८०६ = पा_३,२.७८॥
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

मनः॥ लसक_८०७ = पा_३,२.८२॥
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥

आत्ममाने खश्च॥ लसक_८०८ = पा_३,२.८३॥
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

खित्यनव्ययस्य॥ लसक_८०९ = पा_६,३.६६॥
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

करणे यजः॥ लसक_८१० = पा_३,२.८५॥
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

दृशेः क्वनिप्॥ लसक_८११ = पा_३,२.९४॥
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

राजनि युधि कृञ॥ लसक_८१२ = पा_३,२.९५॥
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

सहे च॥ लसक_८१३ = पा_३,२.९६॥
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥

सप्तम्यां जनेर्डः॥ लसक_८१४ = पा_३,२.९७॥

तत्पुरुषे कृति बहुलम्॥ लसक_८१५ = पा_६,३.१४॥
ङेरलुक्। सरसिजम्, सरोजम्॥

उपसर्गे च संज्ञायाम्॥ लसक_८१६ = पा_३,२.९९॥
प्रजा स्यात्संततौ जने॥

क्तक्तवतू निष्ठा॥ लसक_८१७ = पा_१,१.२६॥
एतौ निष्ठासंज्ञौ स्तः॥

निष्ठा॥ लसक_८१८ = पा_३,२.१०२॥
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥ लसक_८१९ = पा_८,२.४२॥
&न्ब्स्प्॑रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शृ हिंसायाम्॥ ऋत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥

संयोगादेरातो धातोर्यण्वतः॥ लसक_८२० = पा_८,२.४३॥
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

ल्वादिभ्यः॥ लसक_८२१ = पा_८,२.४४॥
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥

हलः॥ लसक_८२२ = पा_६,४.२॥
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥

ओदितश्च॥ लसक_८२३ = पा_८,२.४५॥
भुजो भुग्नः। टुओश्वि, उच्छूनः॥

शुषः कः॥ लसक_८२४ = पा_८,२.५१॥
निष्ठातस्य कः॥ शुष्कः॥

पचो वः॥ लसक_८२५ = पा_८,२.५२॥
पक्वः॥ क्षै क्षये॥

क्षायो मः॥ लसक_८२६ = पा_८,२.५३॥
क्षामः॥

निष्ठायां सेटि॥ लसक_८२७ = पा_६,४.५२॥
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

दृढः स्थूलबलयोः॥ लसक_८२८ = पा_७,२.२०॥
स्थूले बलवति च निपात्यते॥

दधातेर्हिः॥ लसक_८२९ = पा_७,४.४२॥
&न्ब्स्प्॑तादौ किति। हितम्॥

दो दद् घोः॥ लसक_८३० = पा_७,४.४६॥
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वंम्। दत्तः॥

लिटः कानज्वा॥ लसक_८३१ = पा_३,२.१०६॥

क्वसुश्च॥ लसक_८३२ = पा_३,२.१०७॥
लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम्। चक्राणः॥

म्वोश्च॥ लसक_८३३ = पा_८,२.६५॥
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

लटः शतृशानचावप्रथमासमानाधिकरणे॥ लसक_८३४ = पा_३,२.१२४॥
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

आने मुक्॥ लसक_८३५ = पा_७,२.८२॥
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्ये ऽपि क्वचित्। सन् द्विजः॥

विदेः शतुर्वसुः॥ लसक_८३६ = पा_७,१.३६॥
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

तौ सत्॥ लसक_८३७ = पा_३,२.१२७॥
तौ शतृशानचौ सत्संज्ञौ स्तः॥

ऌटः सद्वा॥ लसक_८३८ = पा_३,३.१४॥
व्यवस्थितविभाषेयम्। तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य॥

आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ लसक_८३९ = पा_३,२.१३४॥
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः॥

तृन्॥ लसक_८४० = पा_३,२.१३४॥
कर्ता कटान्॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥ लसक_८४१ = पा_३,२.१५५॥

षः प्रत्ययस्य॥ लसक_८४२ = पा_१,३.६॥
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥

सनाशंसभिक्ष उः॥ लसक_८४३ = पा_३,२.१६८॥
चिकीर्षुः। आशंसुः। भिक्षुः॥

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्॥ लसक_८४४ = पा_३,२.१७७॥
विभ्राट्। भाः॥

राल्लोपः॥ लसक_८४५ = पा_६,४.२१॥
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसम्प्रसारणं च)। वक्तीति वाक्॥

च्छ्वोः शूडनुनासिके च॥ लसक_८४६ = पा_६,४.१९॥
सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तो ऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ लसक_८४७ = पा_३,२.१८२॥
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥

तितुत्रतथसिसुसरकसेषु च॥ लसक_८४८ = पा_७,२.९॥
एषां दशानां कृत्प्रत्ययानामिण् न/ शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥

अर्तिलूधूसूखनसहचर इत्रः॥ लसक_८४९ = पा_६,२.१८४॥
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥

पुवः संज्ञायाम्॥ लसक_८५० = पा_३,२.१८५॥ ॡEईट्Eऋ ष्. १३९
पवित्रम्॥

इति पूर्वकृदन्तम्॥