सभ्याः

अलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः ।

सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या द्विजोत्तमाः ।। ०७१ ।।

न्यायशास्त्रं अतिक्रम्य सभ्यैर्यत्र विनिश्चितम् ।
तत्र धर्मो ह्यधर्मेण हतो हन्ति न संशयः ।। ०७२ ।।

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। ०७३ ।।

अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।
उपेक्षमाणाः सनृपा नरकं यान्त्यधोमुखाः ।। ०७४ ।।

अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः ।
तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः ।। ०७५ ।।

न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् ।। ०७६ ।।

सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ।। ०७७ ।।

अधर्माय यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस्तदा कार्यं निवर्तयेत् ।। ०७८ ।।

स्नेहादज्ञानतो वापि लोभाद्वा मोहतोऽपि वा ।
तत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ।। ०७९ ।।

कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् ।
अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ।। ०८० ।।

सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कार्यिणां एव निश्चितं न विचालयेत् ।। ०८१ ।।