चतुर्विधं उत्तरम्

सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।

पूर्वन्यायविधिश्चैवं उत्तरं स्याच्चतुर्विधम् ।। १६५ ।।

श्रुत्वा भाषार्थं अन्यस्तु यदा तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयं उत्तरम् ।। १६६ ।।

अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ।। १६७ ।।

साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ।। १६८ ।।

मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ।। १६९ ।।

योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयादाधर्यं गुरुरब्रवीत् ।। १७० ।।

आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ।। १७१ ।।

विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा ।
जितश्चैव मयायं प्राक्प्राङ्न्यायस्त्रिप्रकारकः ।। १७२ ।।