वाक्पारुष्यम्

हुङ्कारः कासनं चैव लोके यच्च विगर्हितम् ।

अनुकुर्यादनुब्रूयाद्वाक्पारुष्यं तदुच्यते ।। ७६८ ।।

निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
आक्षेपो निष्ठुरं ज्ञेयं अश्लीलं न्यङ्गसंज्ञितम् ।
पतनीयैरुपाक्रोशैस्तीव्रं आहुर्मनीषिणः ।। ७६९ ।।

यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् ।
अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक्स्मृता बुधैः ।। ७७० ।।

न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा ।
वृत्तदेशकुलादीनां अश्लीला सा बुधैः स्मृता ।। ७७१ ।।

महापातकयोक्त्री च रागद्वेषकरी च या ।
जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् ।। ७७२ ।।

योऽगुणान्कीर्तयेत्क्रोधान्निगुणो वा गुणज्ञताम् ।
अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ।। ७७३ ।।

अदुष्टस्यैव यो दोषान्कीर्तयेद्दोषकारणात् ।
अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ।। ७७४ ।।

मोहात्प्रमादात्सङ्घर्षात्प्रीत्या चोक्तं मयेति यत् ।
नाहं एवं पुनर्वक्ष्ये दण्डार्धं तस्य कल्पयेत् ।। ७७५ ।।

यत्र स्यात्परिहारार्थं पतितस्तेन कीर्तनम् ।
वचनात्तत्र न स्यात्तु दोषो यत्र विभावयेत् ।। ७७६ ।।

अन्यथा तुल्यदोषः स्यान्मिथ्योक्तौ तूत्तमः स्मृतः ।
महता प्रणिधानेन वाग्दुष्टं साधयेन्नरम् ।। ७७७ ।।

अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् ।
अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ।। ७७८ ।।