प्राड्विवाकः

यदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् ।

तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ।। ०६३ ।।

दक्षं कुलीनमध्यस्थं अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठं उद्युक्तं क्रोधवर्जितम् ।। ०६४ ।।

अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः ।
उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु ।। ०६५ ।।

एकशास्त्रं अधीयानो न विद्यात्कार्यनिश्चयम् ।
तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः ।। ०६६ ।।

ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।। ०६७ ।।

अतोऽन्यैर्यत्कृतं कार्यं अन्यायेन कृतं तु तत् ।
नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः ।। ०६८ ।।

व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः ।
विवेचयति यस्तस्मिन्प्राड्विवाकस्ततः स्मृतः ।। ०६९ ।।

अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ।। ०७० ।।