तद्धिते साधारणप्रत्ययप्रकरणम्

 अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः


समर्थानां प्रथमाद्वा॥ लसक_१००० = पा_४,१.८२॥
इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्॥

अश्वपत्यादिभ्यश्च॥ लसक_१००१ = पा_४,१.८४॥
एभ्यो ऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥

दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॥ लसक_१००२ = पा_७,२.११७॥
दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात्। अणो ऽपवादः। दितेरपत्यं दैत्यः। अदितेरादित्यस्य वा॥

हलो यमां यमि लोपः॥ लसक_१००३ = पा_४,१.८५॥
हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। (देवाद्यञञौ)। दैव्यम्/ दैवम्। (बहिषष्टिलोपो यञ्च)। बाह्यः (ईकक्च)॥

किति च॥ लसक_१००४ = पा_७,२.११८॥
किति तद्धिते चाचामादेरचो वृद्धिः स्यात्। वाहीकः। (गोरजादिप्रसङ्गे यत्)। गोरपत्यादि गव्यम्॥

उत्सादिभ्यो ऽञ्॥ लसक_१००५ = पा_४,१.८६॥
औत्सः॥

इत्यपत्यादिविकारान्तार्थ साधारणप्रत्ययाः॥ १॥