साक्षिदोषोद्भावनम्

लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः ।

वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ।। ३७८ ।।

उक्तेरर्थे साक्षिणो यस्तु दूषयेत्प्राग्दूषितान् ।
न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ।। ३७९ ।।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ।। ३८० ।।

प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगित्वाद्व्यवहारान्तरं न च ।। ३८१ ।।

साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान्सर्वान्वाच्यः प्रत्युत्तरं ततः ।। ३८२ ।।

प्रतिपत्तौ तु साक्षित्वं अर्हन्ति न कदाचन ।
अतोऽन्यथा भावनीयाः क्रियया प्रतिवादिना ।। ३८३ ।।

अभावयन्धनं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ।। ३८४ ।।

आकारोऽङ्गितचेष्टाभिस्तस्य भावं विभावयेत् ।
प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते ।। ३८५ ।।

कम्पः स्वेदोऽथ वैकल्यं ओष्ठशोषाभिमर्शने ।
भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् ।
स्वरभेदश्च दुष्टस्य चिह्नान्याहुर्मनीषिणः ।। ३८६ ।।

सभान्तःस्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु ।। ३८७ ।।

अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।
प्रत्यक्षं देशयेत्सक्ष्यं परोक्षं न कथंचन ।। ३८८ ।।

अर्थस्योपरि वक्तव्यं तयोरपि विना क्वचित् ।
चतुष्पदेष्वयं धर्मो द्विपदस्थावरेषु च ।। ३८९ ।।

तौल्यगणिममेयानां अभावेऽपि विवादयेत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततोऽन्यथा ।। ३९० ।।

वधे चेत्प्राणिनां साक्ष्यं वादयेच्छिवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ।। ३९१ ।।

स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ।। ३९२ ।।

स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।
अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ।। ३९३ ।।

समवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव तु ।
विभिन्नैकैककार्यं यद्वक्तव्यं तत्पृथक्पृथक् ।। ३९४ ।।

भिन्नकाले तु यत्कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादयेत्तत्र भिन्नकालं तु तद्भृगुः ।। ३९५ ।।

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्यधिके वार्थे प्रोक्ते साध्यं न सिध्यति ।। ३९६ ।।

साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्पितम् ।। ३९७ ।।

ऊनाधिकं तु यत्र स्यात्तत्साक्ष्यं तत्र वर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति ।। ३९८ ।।

देशं कालं धनं संख्यां रूपं जात्याकृती वयः ।
विसंवदेद्यत्र साक्ष्ये तदनुक्तं विदुर्बुधाः ।। ३९९ ।।

निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत् ।। ४०० ।।

ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः ।
तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः ।। ४०१ ।।