विष्णुस्मृतिः/सप्तचत्वारिंशत्तमोऽध्यायः

अथ चान्द्रायणं । । ४७.१ । ।


ग्रासानविकारानश्नीयात् । । ४७.२ । ।

तांश्चन्द्रकलाभिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां नाश्नीयात् । एष चान्द्रायणो यवमध्यः । । ४७.३ । ।

पिपीलिकामध्यो वा । । ४७.४ । ।

यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः । । ४७.५ । ।

यस्य पौर्णमासी स यवमध्यः । । ४७.६ । ।

अष्टौ ग्रासान्प्रतिदिवसं मासं अश्नीयात्स यतिचान्द्रायणः । । ४७.७ । ।

सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः । । ४७.८ । ।

यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रायणः । । ४७.९ । ।

व्रतं एतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः ।
प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च । । ४७.१० । ।