प्राग्दिशीयप्रकरणम्

 अथ प्राग्दिशीयाः


प्राग्दिशो विभक्तिः॥ लसक_१२०० = पा_५,३.१॥
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः॥

किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः॥ लसक_१२०१ = पा_५,३.२॥
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशो ऽधिक्रियते॥

पञ्चम्यास्तसिल्॥ लसक_१२०२ = पा_५,३.७॥
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥

कु तिहोः॥ लसक_१२०३ = पा_७,२.१०४॥
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥

इदम इश्॥ लसक_१२०४ = पा_५,३.२॥
प्राग्दिशीये परे। इतः॥

अन्॥ लसक_१२०५ = पा_६,४.१६७॥
एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥

पर्यभिभ्यां च॥ लसक_१२०६ = पा_५,३.९॥
आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

सप्तम्यास्त्रल्॥ लसक_१२०७ = पा_५,३.१०॥
कुत्र। यत्र। तत्र। बहुत्र॥

इदमो हः॥ लसक_१२०८ = पा_५,३.११॥
त्रलो ऽपवादः। इह॥

किमो ऽत्॥ लसक_१२०९ = पा_५,३.१२॥
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमो ऽद्वा स्यात् पक्षे त्रल्॥

क्वाति॥ लसक_१२१० = पा_७,२.१०५॥
किमः क्वादेशः स्यादति। क्व। कुत्र॥

इतराभ्यो ऽपि दृश्यन्ते॥ लसक_१२११ = पा_५,३.१४॥
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तम्भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥

सर्वैकान्यकिंयत्तदः काले दा॥ लसक_१२१२ = पा_५,३.१५॥
सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥

सर्वस्य सो ऽन्यतरस्यां दि॥ लसक_१२१३ = पा_५,३.६॥
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम् ? सर्वत्र देशे॥

इदमो र्हिल्॥ लसक_१२१४ = पा_५,३.१६॥
सप्तम्यन्तात् काल इत्येव॥

एतेतौ रथोः॥ लसक_१२१५ = पा_५,३.४॥
इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे/ अस्मिन् काले एतर्हि/ काले किम्? इह देशे॥

अनद्यतने र्हिलन्यतरस्याम्॥ लसक_१२१६ = पा_५,३.२१॥
कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥

एतदः॥ लसक_१२१७ = पा_५,३.५॥
एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥

प्रकारवचने थाल्॥ लसक_१२१८ = पा_५,३.२३॥
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥

इदमस्थमुः॥ लसक_१२१९ = पा_५,३.२४॥
थालो ऽपवादः। (एतदो ऽपि वाच्यः)। अनेन एतेन वा प्रकारेण इत्थम्॥

किमश्च॥ लसक_१२२० = पा_५,३.२५॥
केन प्रकारेण कथम्॥

इति प्राग्दिशीयाः॥ १४॥