समयस्यानपाकर्म संविद्व्यतिक्रमो वा

समूहिनां तु यो धर्मस्तेन धर्मेण ते सदा ।

प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ।। ६६८ ।।

अविरोधेन धर्मस्य निर्गतं राजशासनम् ।
तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ।। ६६९ ।।

राजप्रवर्तितान्धर्मान्यो नरो नानुपालयेत् ।
गर्ह्यः स पापो दण्ड्यश्च लोपयन्राजशासनम् ।। ६७० ।।

युक्तियुक्तं च यो हन्याद्वक्तुर्योऽनवकाशदः ।
अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ।। ६७१ ।।

साहसी भेदकारी च गणद्रव्यविनाशकः ।
उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ।। ६७२ ।।

एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् ।
अकुर्वंस्तत्तथा दण्ड्यस्तस्य दोषं अदर्शयन् ।। ६७३ ।।

गणं उद्दिश्य यत्किंचित्कृत्वर्णं भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् ।। ६७४ ।।

गणानां श्रेणिवर्गाणां गताः स्युर्ये तु मध्यताम् ।
प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ।। ६७५ ।।

तथैव भोज्यवैभाज्य दानधर्मक्रियासु च ।
समूहस्थोऽंशभागी स्यात्प्रगतस्त्वंशभाङ्न तु ।। ६७६ ।।

यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।
राजप्रसादलब्धं च सर्वेषां एव तत्समम् ।। ६७७ ।।