स्वार्थिकप्रकरणम्

 अथ स्वार्थिकाः


इवे प्रतिकृतौ॥ लसक_१२४१ = पा_५,३.९६॥
कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः। (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्)। अश्वकः॥

तत्प्रकृतवचने मयट्॥ लसक_१२४२ = पा_५,४.२१॥
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावे अधिकरणे वा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तु अन्नमयो यज्ञः। अपूपमयं पर्व॥

प्रज्ञादिभ्यश्च॥ लसक_१२४३ = पा_५,४.३८॥
अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः॥

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्॥ लसक_१२४४ = पा_५,४.४२॥
बहूनि ददाति बहुशः। अल्पशः। (आद्यादिभ्यस्तसेरुपसंख्यानम्)। आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणो ऽयम्। स्वरेण, स्वरतः। वर्णतः॥

कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ लसक_१२४५ = पा_५,४.५०॥
(अभूततद्भाव इति वक्तव्यम्)/ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे//

अस्य च्वौ॥ लसक_१२४६ = पा_७,३.३२॥
अवर्णस्य ईत्स्यात् च्वौ। वेर्लोपे च्व्यन्तत्वादव्ययत्वम्। अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति। ब्रह्मीभवति। गङ्गीस्यात्। (अव्ययस्य च्वावीत्वं नेति वाच्यम्)। दोषाभूतमहः। दिवाभूता रात्रिः॥

विभाषा साति कार्त्स्न्ये॥ लसक_१२४७ = पा_५,४,५२॥
च्विविषये सातिर्वा स्यात्साकल्ये॥

सात्पदाद्योः॥ लसक_१२४८ = पा_८,३.१११॥
सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यते ऽग्निसाद्भवति। दधि सिञ्चति॥

च्वौ च॥ लसक_१२४९ = पा_७,४.२६॥
च्वौ परे पूर्वस्य दीर्घः स्यात्। अग्नीभवति॥

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्॥ लसक_१२५० = पा_५,४.५७॥
द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्। तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे / (डाचि विवक्षिते द्वे बहुलम्)। इति डाचि विवक्षिते द्वित्वम्। (नित्यमाम्रेडिते डाचीति वक्तव्यम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः। पटपटाकरोति। अव्यक्तानुकरणात्किम् ? ईषत्करोति। द्व्यजवरार्धात्किम् ? श्रत्करोति। अवरेति किम् ? खरटखरटाकरोति। अनितौ किम् ? पटिति करोति॥

इति स्वार्थिकाः॥ १६॥
// इति तद्धिताः॥