सन्नन्तप्रक्रिया

 अथ सन्नन्तप्रक्रिया


धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ लसक_७०८ = पा_३,१.७॥
इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ पठ व्यक्तायां वाचि॥

सन्यङोः॥ लसक_७०९ = पा_६,१.९॥
सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तो ऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम् ? गमनेनेच्छति। समान कर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥

सः स्यार्धधातुके॥ लसक_७१० = पा_७,४.४९॥
सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति। एकाच इति नेट्॥

अज्झनगमां सनि॥ लसक_७११ = पा_६,४.१६॥
अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥

इको झल्॥ लसक_७१२ = पा_१,२.९॥
इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥

सनि ग्रहगुहोश्च॥ लसक_७१३ = पा_७,२.१२॥
ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात्। बुभूषति॥

इति सन्नन्तप्रक्रिया॥