मनुस्मृतिः/द्वादशोध्यायः - 2
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् । । १२.६२ । ।
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि । । १२.६३ । ।
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् । । १२.६४ । ।
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः ।
श्वावित्कृतान्नं विविधं अकृतान्नं तु शल्यकः । । १२.६५ । ।
बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः । । १२.६६ । ।
वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।
स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः । । १२.६७ । ।
यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः । । १२.६८ । ।
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।
एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः । । १२.६९ । ।
स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।
पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु । । १२.७० । ।
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः । । १२.७१ । ।
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः । । १२.७२ । ।
यथा यथा निषेवन्ते विषयान्विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते । । १२.७३ । ।
तेऽभ्यासात्कर्मणां तेषां पापानां अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु । । १२.७४ । ।
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनछेदनानि च । । १२.७५ । ।
विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् ।
करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान् । । १२.७६ । ।
संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश्च विविधानि भयानि च । । १२.७७ । ।
असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि परप्रेष्यत्वं एव च । । १२.७८ । ।
बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् । । १२.७९ । ।
जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् ।
क्लेशांश्च विविधांस्तांस्तान्मृत्युं एव च दुर्जयम् । । १२.८० । ।
यादृशेन तु भावेन यद्यत्कर्म निषेवते ।
तादृशेन शरीरेण तत्तत्फलं उपाश्नुते । । १२.८१ । ।
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत । । १२.८२ । ।
वेदाभ्यासस्तपो ज्ञानं इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् । । १२.८३ । ।
सर्वेषां अपि चैतेषां शुभानां इह कर्मणाम् ।
किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति । । १२.८४ । ।
सर्वेषां अपि चैतेषां आत्मज्ञानं परं स्मृतम् ।
तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । । १२.८५ । ।
षण्णां एषां तु सर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् । । १२.८६ । ।
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ । । १२.८७ । ।
सुखाभ्युदयिकं चैव नैःश्रेयसिकं एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । । १२.८८ । ।
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञातपूर्वं तु निवृत्तं उपदिश्यते । । १२.८९ । ।
प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै । । १२.९० । ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यं अधिगच्छति । । १२.९१ । ।
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् । । १२.९२ । ।
एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा । । १२.९३ । ।
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
अशक्यं चाप्रमेयं च वेदशास्त्रं इति स्थितिः । । १२.९४ । ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः । । १२.९५ । ।
उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च । । १२.९६ । ।
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति । । १२.९७ । ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः । । १२.९८ । ।
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् । । १२.९९ । ।
सेनापत्यं च राज्यं च दण्डनेतृत्वं एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति । । १२.१०० । ।
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषं आत्मनः । । १२.१०१ । ।
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते । । १२.१०२ । ।
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः । । १२.१०३ । ।
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययामृतं अश्नुते । । १२.१०४ । ।
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिं अभीप्सता । । १२.१०५ । ।
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः । । १२.१०६ । ।
नैःश्रेयसं इदं कर्म यथोदितं अशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यं उपदिश्यते । । १२.१०७ । ।
अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः । । १२.१०८ । ।
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः । । १२.१०९ । ।
दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् । । १२.११० । ।
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा । । १२.१११ । ।
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये । । १२.११२ । ।
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानां उदितोऽयुतैः । । १२.११३ । ।
अव्रतानां अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते । । १२.११४ । ।
यं वदन्ति तमोभूता मूर्खा धर्मं अतद्विदः ।
तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति । । १२.११५ । ।
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् । । १२.११६ । ।
एवं स भगवान्देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वं उक्तवान् । । १२.११७ । ।
सर्वं आत्मनि संपश्येत्सच्चासच्च समाहितः ।
सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः । । १२.११८ । ।
आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् । । १२.११९ । ।
खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु । । १२.१२० । ।
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्यग्निं मित्रं उत्सर्गे प्रजने च प्रजापतिम् । । १२.१२१ । ।
प्रशासितारं सर्वेषां अणीयांसं अणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् । । १२.१२२ । ।
एतं एके वदन्त्यग्निं मनुं अन्ये प्रजापतिम् ।
इन्द्रं एके परे प्राणं अपरे ब्रह्म शाश्वतम् । । १२.१२३ । ।
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् । । १२.१२४ । ।
एवं यः सर्वभूतेषु पश्यत्यात्मानं आत्मना ।
स सर्वसमतां एत्य ब्रह्माभ्येति परं पदम् । । १२.१२५ । ।
इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः ।
भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् । । १२.१२६ । ।