मनुस्मृतिः/षष्ठोध्यायः - 2

 

प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् । । ६.३८ । ।

यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः । । ६.३९ । ।

यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन । । ६.४० । ।

अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् । । ६.४१ । ।

एक एव चरेन्नित्यं सिद्ध्यर्थं असहायवान् ।
सिद्धिं एकस्य संपश्यन्न जहाति न हीयते । । ६.४२ । ।

अनग्निरनिकेतः स्याद्ग्रामं अन्नार्थं आश्रयेत् ।
उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः । । ६.४३ । ।

कपालं वृक्षमूलानि कुचेलं असहायता ।
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् । । ६.४४ । ।

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालं एव प्रतीक्षेत निर्वेशं भृतको यथा । । ६.४५ । ।

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् । । ६.४६ । ।

अतिवादांस्तितिक्षेत नावमन्येत कं चन ।
न चेमं देहं आश्रित्य वैरं कुर्वीत केन चित् । । ६.४७ । ।

क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचं अनृतां वदेत् । । ६.४८ । ।

अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेदिह । । ६.४९ । ।

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् । । ६.५० । ।

न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः ।
आकीर्णं भिक्षुकैर्वान्यैरगारं उपसंव्रजेत् । । ६.५१ । ।

क्ल्प्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् । । ६.५२ । ।

अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।
तेषां अद्भिः स्मृतं शौचं चमसानां इवाध्वरे । । ६.५३ । ।

अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा ।
एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् । । ६.५४ । ।

एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति । । ६.५५ । ।

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् । । ६.५६ । ।

अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः । । ६.५७ । ।

अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते । । ६.५८ । ।

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् । । ६.५९ । ।

इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च ।
अहिंसया च भूतानां अमृतत्वाय कल्पते । । ६.६० । ।

अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनाश्च यमक्षये । । ६.६१ । ।

विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश्चोपपीडनम् । । ६.६२ । ।

देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः । । ६.६३ । ।

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगं अक्षयम् । । ६.६४ । ।

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु च समुत्पत्तिं उत्तमेष्वधमेषु च । । ६.६५ । ।

दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् । । ६.६६ । ।

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न नामग्रहणादेव तस्य वारि प्रसीदति । । ६.६७ । ।

संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् । । ६.६८ । ।

अह्ना रात्र्या च याञ् जन्तून्हिनस्त्यज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् । । ६.६९ । ।

प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ।
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः । । ६.७० । ।

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् । । ६.७१ । ।

प्राणायमैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ६.७२ । ।

उच्चावचेषु भूतेषु दुर्ज्ञेयां अकृतात्मभिः ।
ध्यानयोगेन संपश्येद्गतिं अस्यान्तरात्मनः । । ६.७३ । ।

सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते ।
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते । । ६.७४ । ।

अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः ।
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् । । ६.७५ । ।

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः । । ६.७६ । ।

जराशोकसमाविष्टं रोगायतनं आतुरम् ।
रजस्वलं अनित्यं च भूतावासं इमं त्यजेत् । । ६.७७ । ।

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते । । ६.७८ । ।

प्रियेषु स्वेषु सुकृतं अप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् । । ६.७९ । ।

यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
तदा सुखं अवाप्नोति प्रेत्य चेह च शाश्वतम् । । ६.८० । ।

अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ् शनैः शनैः ।
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते । । ६.८१ । ।

ध्यानिकं सर्वं एवैतद्यदेतदभिशब्दितम् ।
न ह्यनध्यात्मवित्कश्चित्क्रियाफलं उपाश्नुते । । ६.८२ । ।

अधियज्ञं ब्रह्म जपेदाधिदैविकं एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् । । ६.८३ । ।

इदं शरणं अज्ञानां इदं एव विजानताम् ।
इदं अन्विच्छतां स्वर्गं इदं आनन्त्यं इच्छताम् । । ६.८४ । ।

अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति । । ६.८५ । ।

एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
वेदसंन्यासिकानां तु कर्मयोगं निबोधत । । ६.८६ । ।

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः । । ६.८७ । ।

सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् । । ६.८८ । ।

सर्वेषां अपि चैतेषां वेदस्मृतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि । । ६.८९ । ।

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् । । ६.९० । ।

चतुर्भिरपि चैवैतैर्नित्यं आश्रमिभिर्द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः । । ६.९१ । ।

धृतिः क्षमा दमोऽस्तेयं शौचं इन्द्रियनिग्रहः ।
धीर्विद्या सत्यं अक्रोधो दशकं धर्मलक्षणम् । । ६.९२ । ।

दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् । । ६.९३ । ।

दशलक्षणकं धर्मं अनुतिष्ठन्समाहितः ।
वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः । । ६.९४ । ।

संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् ।
नियतो वेदं अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् । । ६.९५ । ।

एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः ।
संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् । । ६.९६ । ।

एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत । । ६.९७ । ।