मनुस्मृतिः/सप्तमोध्यायः - 2

 

पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य फलं अश्नुते । । ७.८६ । ।

देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् । । ७.८७ं । ।

समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः ।
न निवर्तेत संग्रामात्क्षात्रं धर्मं अनुस्मरन् । । ७.८७[८८ं] । ।

संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् । । ७.८८[८९ं] । ।

आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः । । ७.८९[९०ं] । ।

न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः । । ७.९०[९१ं] । ।

न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् । । ७.९१[९२ं] । ।

न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् । । ७.९२[९३ं] । ।

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्मं अनुस्मरन् । । ७.९३[९४ं] । ।

यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते । । ७.९४[९५ं] । ।

यच्चास्य सुकृतं किं चिदमुत्रार्थं उपार्जितम् ।
भर्ता तत्सर्वं आदत्ते परावृत्तहतस्य तु । । ७.९५[९६ं] । ।

रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् । । ७.९६[९७ं] । ।

राज्ञश्च दद्युरुद्धारं इत्येषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यं अपृथग्जितम् । । ७.९७[९८ं] । ।

एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् । । ७.९८[९९ं] । ।

अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् । । ७.९९[१००ं] । ।

एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य नित्यं अनुष्ठानं सम्यक्कुर्यादतन्द्रितः । । ७.१००[१०१ं] । ।

अलब्धं इच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् । । ७.१०१[१०२ं] । ।

नित्यं उद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः । । ७.१०२[१०३ं] । ।

नित्यं उद्यतदण्डस्य कृत्स्नं उद्विजते जगत् ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् । । ७.१०३[१०४ं] । ।

अमाययैव वर्तेत न कथं चन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः । । ७.१०४[१०५ं] । ।

नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरं आत्मनः । । ७.१०५[१०६ं] । ।

बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमे ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् । । ७.१०६[१०७ं] । ।

एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः । । ७.१०७[१०८ं] । ।

यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
दण्डेनैव प्रसह्यैताञ् शनकैर्वशं आनयेत् । । ७.१०८[१०९ं] । ।

सामादीनां उपायानां चतुर्णां अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये । । ७.१०९[११०ं] । ।

यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः । । ७.११०[१११ं] । ।

मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः । । ७.१११[११२ं] । ।

शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञां अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् । । ७.११२[११३ं] । ।

राष्ट्रस्य संग्रहे नित्यं विधानं इदं आचरेत् ।
सुसंगृहीतराष्ट्रे हि पार्थिवः सुखं एधते । । ७.११३[११४ं] । ।

द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्मं अधिष्ठितम् ।
तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् । । ७.११४[११५ं] । ।

ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा ।
विंशतीशं शतेशं च सहस्रपतिं एव च । । ७.११५[११६ं] । ।

ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम् ।
शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने । । ७.११६[११७ं] । ।

विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् । । ७.११७[११८ं] । ।

यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् । । ७.११८[११९ं] । ।

दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् । । ७.११९[१२०ं] । ।

तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि ।
राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः । । ७.१२०[१२१ं] । ।

नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणां इव ग्रहम् । । ७.१२१[१२२ं] । ।

स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् ।
तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः । । ७.१२२[१२३ं] । ।

राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः । । ७.१२३[१२४ं] । ।

ये कार्यिकेभ्योऽर्थं एव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वं आदाय राजा कुर्यात्प्रवासनम् । । ७.१२४[१२५ं] । ।

राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः । । ७.१२५[१२६ं] । ।

पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः । । ७.१२६[१२७ं] । ।

क्रयविक्रयं अध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् । । ७.१२७[१२८ं] । ।

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् । । ७.१२८[१२९ं] । ।

यथाल्पाल्पं अदन्त्याद्यं वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः । । ७.१२९[१३०ं] । ।

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानां अष्टमो भागः षष्ठो द्वादश एव वा । । ७.१३०[१३१ं] । ।

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च । । ७.१३१[१३२ं] । ।

पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च । । ७.१३२[१३३ं] । ।

म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।
न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन् । । ७.१३३[१३४ं] । ।

यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्रं अचिरेनैव सीदति । । ७.१३४[१३५ं] । ।

श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं पिता पुत्रं इवाउरसम् । । ७.१३५[१३६ं] । ।

संरक्ष्यमाणो राज्ञा यं] कुरुते धर्मं अन्वहम् ।
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रं एव च । । ७.१३६[१३७ं] । ।

यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् । । ७.१३७[१३८ं] । ।

कारुकाञ् शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः ।
एकैकं कारयेत्कर्म मासि मासि महीपतिः । । ७.१३८[१३९ं] । ।

नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन्ह्यात्मनो मूलं आट्मानं तांश्च पीदयेत् । । ७.१३९[१४०ं] । ।

तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः । । ७.१४०[१४१ं] । ।

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेदासने तस्मिन्खिन्नः कार्येक्षणे नृणाम् । । ७.१४१[१४२ं] । ।

एवं सर्वं विधायेदं इतिकर्तव्यं आत्मनः ।
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः । । ७.१४२[१४३ं] । ।

विक्रोशन्त्यो यस्य राष्ट्राद्ह्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति । । ७.१४३[१४४ं] । ।

क्षत्रियस्य परो धर्मः प्राजानां एव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते । । ७.१४४[१४५ं] । ।

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम् । । ७.१४५[१४६ं] । ।

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः । । ७.१४६[१४७ं] । ।

गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेदविभावितः । । ७.१४७[१४८ं] । ।

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः । । ७.१४८[१४९ं] । ।

जडमूकान्धबधिरांस्तैर्यग्योनान्वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् । । ७.१४९[१५०ं] । ।

भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् । । ७.१५०[१५१ं] । ।

मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान्सार्धं तैरेक एव वा । । ७.१५१[१५२ं] । ।

परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणम् । । ७.१५२[१५३ं] । ।

दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् । । ७.१५३[१५४ं] । ।

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च । । ७.१५४[१५५ं] । ।

मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः । । ७.१५५[१५६ं] । ।

एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः । । ७.१५६[१५७ं] । ।

अमात्यराष्ट्रदुर्गार्थ दण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः । । ७.१५७[१५८ं] । ।

अनन्तरं अरिं विद्यादरिसेविनं एव च ।
अरेरनन्तरं मित्रं उदासीनं तयोः परम् । । ७.१५८[१५९ं] । ।

तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च । । ७.१५९[१६०ं] । ।

संधिं च विग्रहं चैव यानं आसनं एव च ।
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा । । ७.१६०[१६१ं] । ।

आसनं चैव यानं च संधिं विग्रहं एव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयं एव च । । ७.१६१[१६२ं] । ।

संधिं तु द्विविधं विद्याद्राजा विग्रहं एव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः । । ७.१६२[१६३ं] । ।

समानयानकर्मा च विपरीतस्तथैव च ।
तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः । । ७.१६३[१६४ं] । ।

स्वयंकृतश्च कार्यार्थं अकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः । । ७.१६४[१६५ं] । ।

एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानं उच्यते । । ७.१६५[१६६ं] । ।

क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतं आसनम् । । ७.१६६[१६७ं] । ।

बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः । । ७.१६७[१६८ं] । ।

अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः । । ७.१६८[१६९ं] । ।

यदावगच्छेदायत्यां आधिक्यं ध्रुवं आत्मनः ।
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् । । ७.१६९[१७०ं] । ।

यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् । । ७.१७०[१७१ं] । ।

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद्रिपुं प्रति । । ७.१७१[१७२ं] । ।

यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् । । ७.१७२[१७३ं] । ।

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत्कार्यं आत्मनः । । ७.१७३[१७४ं] । ।

यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् । । ७.१७४[१७५ं] । ।

निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा । । ७.१७५[१७६ं] । ।

यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् ।
सुयुद्धं एव तत्रापि निर्विशङ्कः समाचरेत् । । ७.१७६[१७७ं] । ।

सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः । । ७.१७७[१७८ं] । ।

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः । । ७.१७८[१७९ं] । ।

आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते । । ७.१७९[१८०ं] । ।

यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्यादेष सामासिको नयः । । ७.१८०[१८१ं] । ।

तदा तु यानं आतिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायादरिपुरं शनैः । । ७.१८१[१८२ं] । ।

मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् । । ७.१८२[१८३ं] । ।

अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः । । ७.१८३[१८४ं] । ।

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च । । ७.१८४[१८५ं] । ।

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
सांपरायिककल्पेन यायादरिपुरं प्रति । । ७.१८५[१८६ं] । ।

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतरो रिपुः । । ७.१८६[१८७ं] । ।

दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा । । ७.१८७[१८८ं] । ।

यतश्च भयं आशङ्केत्ततो विस्तारयेद्बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् । । ७.१८८[१८९ं] । ।

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश्च भयं आशङ्केत्प्राचीं तां कल्पयेद्दिशम् । । ७.१८९[१९०ं] । ।

गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समन्ततः ।
स्थाने युद्धे च कुशलानभीरूनविकारिणः । । ७.१९०[१९१ं] । ।

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।
सूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् । । ७.१९१[१९२ं] । ।

स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले । । ७.१९२[१९३ं] । ।

कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाञ् शूरसेनजान् ।
दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् । । ७.१९३[१९४ं] । ।

प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् ।
चेष्टाश्चैव विजानीयादरीन्योधयतां अपि । । ७.१९४[१९५ं] । ।

उपरुध्यारिं आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् । । ७.१९५[१९६ं] । ।

भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा । । ७.१९६[१९७ं] । ।

उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः । । ७.१९७[१९८ं] । ।

साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
विजेतुं प्रयतेतारीन्न युद्धेन कदा चन । । ७.१९८[१९९ं] । ।

अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् । । ७.१९९[२००ं] । ।

त्रयाणां अप्युपायानां पूर्वोक्तानां असंभवे ।
तथा युध्येत संपन्नो विजयेत रिपून्यथा । । ७.२००[२०१ं] । ।

जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् ।
प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च । । ७.२०१[२०२ं] । ।

सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् । । ७.२०२[२०३ं] । ।

प्रमाणानि च कुर्वीत तेषां धर्मान्यथोदितान् ।
रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह । । ७.२०३[२०४ं] । ।

आदानं अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानां अर्थानां काले युक्तं प्रशस्यते । । ७.२०४[२०५ं] । ।

सर्वं कर्मेदं आयत्तं विधाने दैवमानुषे ।
तयोर्दैवं अचिन्त्यं तु मानुषे विद्यते क्रिया । । ७.२०५[२०६ं] । ।

दैवेन विधिना युक्तं मानुष्यं यत्प्रवर्तते ।
परिक्लेशेन महता तदर्थस्य समाधकम् । । ७.२०७ं । ।

संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति । । ७.२०८ं । ।

चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः । । ७.२०९ं । ।

सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् । । ७.२०६[२१०ं] । ।

पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्रादथाप्यमित्राद्वा यात्राफलं अवाप्नुयात् । । ७.२०७[२११ं] । ।

हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशं अप्यायतिक्षमम् । । ७.२०८[२१२ं] । ।

धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिं एव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते । । ७.२०९[२१३ं] । ।

प्राज्ञं कुलीनं शूरं च दक्षं दातारं एव च ।
कृतज्ञं धृतिमन्तं च कष्टं आहुररिं बुधाः । । ७.२१०[२१४ं] । ।

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततं उदासीनगुणोदयः । । ७.२११[२१५ं] । ।

क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीं अपि ।
परित्यजेन्नृपो भूमिं आत्मार्थं अविचारयन् । । ७.२१२[२१६ं] । ।

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि । । ७.२१३[२१७ं] । ।

सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः । । ७.२१४[२१८ं] । ।

उपेतारं उपेयं च सर्वोपायांश्च कृत्स्नशः ।
एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये । । ७.२१५[२१९ं] । ।

एवं सर्वं इदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुं अन्तःपुरं विशेत् । । ७.२१६[२२०ं] । ।

तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
सुपरीक्षितं अन्नाद्यं अद्यान्मन्त्रैर्विषापहैः । । ७.२१७[२२१ं] । ।

विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा । । ७.२१८[२२२ं] । ।

परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः । । ७.२१९[२२३ं] । ।

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च । । ७.२२०[२२४ं] । ।

भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् । । ७.२२१[२२५ं] । ।

अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् ।
वाहनानि च सर्वाणि शस्त्राण्याभरणानि च । । ७.२२२[२२६ं] । ।

संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् । । ७.२२३[२२७ं] । ।

गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः । । ७.२२४[२२८ं] । ।

तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः ।
संविशेत्तं यथाकालं उत्तिष्ठेच्च गतक्लमः । । ७.२५५[२२९ं] । ।

एतद्विधानं आतिष्ठेदरोगः पृथिवीपतिः ।
अस्वस्थः सर्वं एतत्तु भृत्येषु विनियोजयेत् । । ७.२२६[२३०ं] । ।