मनुस्मृतिः/अष्टमोध्यायः - 2

 

मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः । । ८.१९५ । ।

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् । । ८.१९६ । ।

विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः ।
न तं नयेत साक्ष्यं तु स्तेनं अस्तेनमानिनम् । । ८.१९७ । ।

अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् ।
निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् । । ८.१९८ । ।

अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः । । ८.१९९ । ।

संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् ।
आगमः कारणं तत्र न संभोग इति स्थितिः । । ८.२०० । ।

विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ ।
क्रयेण स विशुद्धं हि न्यायतो लभते धनम् । । ८.२०१ । ।

अथ मूलं अनाहार्यं प्रकाशक्रयशोधितः ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् । । ८.२०२ । ।

नान्यदन्येन संसृष्ट रूपं विक्रयं अर्हति ।
न चासारं न च न्यूनं न दूरेण तिरोहितम् । । ८.२०३ । ।

अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः । । ८.२०४ । ।

नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
पूर्वं दोषानभिख्याप्य प्रदाता दण्डं अर्हति । । ८.२०५ । ।

ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयोऽंशः सहकर्तृभिः । । ८.२०६ । ।

दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नं एव लभेतांशं अन्येनैव च कारयेत् । । ८.२०७ । ।

यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आदिदीत भजेरन्सर्व एव वा । । ८.२०८ । ।

रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम् ।
होता वापि हरेदश्वं उद्गाता चाप्यनः क्रये । । ८.२०९ । ।

सर्वेषां अर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः । । ८.२१० । ।

संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः ।
अनेन विधियोगेन कर्तव्यांशप्रकल्पना । । ८.२११ । ।

धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम् ।
पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् । । ८.२१२ । ।

यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः । । ८.२१३ । ।

दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया ।
अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् । । ८.२१४ । ।

भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् । । ८.२१५ । ।

आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितं आदितः ।
स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् । । ८.२१६ । ।

यथोक्तं आर्तः सुस्थो वा यस्तत्कर्म न कारयेत् ।
न तस्य वेतनं देयं अल्पोनस्यापि कर्मणः । । ८.२१७ । ।

एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।
अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् । । ८.२१८ । ।

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् । । ८.२१९ । ।

निगृह्य दापयेच्चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान्षण्निष्कांश्छतमानं च राजकम् । । ८.२२० । ।

एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् । । ८.२२१ । ।

क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् ।
सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा । । ८.२२२ । ।

परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।
आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् । । ८.२२३ । ।

यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् । । ८.२२४ । ।

अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं प्राप्नुयाद्दण्डं तस्या दोषं अदर्शयन् । । ८.२२५ । ।

पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।
नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः । । ८.२२६ । ।

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे । । ८.२२७ । ।

यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् ।
तं अनेन विधानेन धर्म्ये पथि निवेशयेत् । । ८.२२८ । ।

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः । । ८.२२९ । ।

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतां इयात् । । ८.२३० । ।

गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः । । ८.२३१ । ।

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात्पाल एव तु । । ८.२३२ । ।

विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति । । ८.२३३ । ।

कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् । । ८.२३४ । ।

अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।
यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् । । ८.२३५ । ।

तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।
यां उत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी । । ८.२३६ । ।

धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः ।
शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु । । ८.२३७ । ।

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् । । ८.२३८ । ।

वृतिं तत्र प्रकुर्वीत यां उष्ट्रो न विलोकयेत् ।
छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् । । ८.२३९ । ।

पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालान्वारयेत्पशून् । । ८.२४० । ।

क्षेत्रेष्वन्येषु तु पशुः सपादं पणं अर्हति ।
सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा । । ८.२४१ । ।

अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा ।
सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् । । ८.२४२ । ।

क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् ।
ततोऽर्धदण्डो भृत्यानां अज्ञानात्क्षेत्रिकस्य तु । । ८.२४३ । ।

एतद्विधानं आतिष्ठेद्धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे । । ८.२४४ । ।

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।
ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु । । ८.२४५ । ।

सींआवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान् । । ८.२४६ । ।

गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च ।
शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति । । ८.२४७ । ।

तडागान्युदपानानि वाप्यः प्रस्रवणानि च । । ८.२४८अ[ं२५०] । ।
सीमासंधिषु कार्याणि देवतायतनानि च । । ८.२४८[ं२५०च्] । ।

उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् । । ८.२४९ । ।

अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः ।
करीषं इष्टकाङ्गारांश्शर्करा वालुकास्तथा । । ८.२५०[ं२४८] । ।

यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् ।
तानि संधिषु सीमायां अप्रकाशानि कारयेत् । । ८.२५१ । ।

एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ।
पूर्वभुक्त्या च सततं उदकस्यागमेन च । । ८.२५२ । ।

यदि संशय एव स्याल्लिङ्गानां अपि दर्शने ।
साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः । । ८.२५३ । ।

ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः । । ८.२५४ । ।

ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः । । ८.२५५ । ।

शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम् । । ८.२५६ । ।

यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् । । ८.२५७ । ।

साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ । । ८.२५८ । ।

सामन्तानां अभावे तु मौलानां सीम्नि साक्षिणाम् ।
इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् । । ८.२५९ । ।

व्याधाञ् शाकुनिकान्गोपान्कैवर्तान्मूलखानकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः । । ८.२६० । ।

ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः । । ८.२६१ । ।

क्षेत्रकूपतडागानां आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः । । ८.२६२ । ।

सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम् ।
सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । । ८.२६३ । ।

गृहं तडागं आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः । । ८.२६४ । ।

सीमायां अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद्भूमिं एकेषां उपकारादिति स्थितिः । । ८.२६५ । ।

एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् । । ८.२६६ । ।

शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति ।
वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधं अर्हति । । ८.२६७ । ।

पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः । । ८.२६८ । ।

समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् । । ८.२६९ । ।

एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः । । ८.२७० । ।

नामजातिग्रहं त्वेषां अभिद्रोहेण कुर्वतः ।
निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः । । ८.२७१ । ।

धर्मोपदेशं दर्पेण विप्राणां अस्य कुर्वतः ।
तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः । । ८.२७२ । ।

श्रुतं देशं च जातिं च कर्म शरीरं एव च ।
वितथेन ब्रुवन्दर्पाद्दाप्यः स्याद्द्विशतं दमम् । । ८.२७३ । ।

काणं वाप्यथ वा खञ्जं अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् । । ८.२७४ । ।

मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयञ् शतं दाप्यः पन्थानं चाददद्गुरोः । । ८.२७५ । ।

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः । । ८.२७६ । ।

विट्शूद्रयोरेवं एव स्वजातिं प्रति तत्त्वतः ।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः । । ८.२७७ । ।

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् । । ८.२७८ । ।

येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठं अन्त्यजः ।
छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम् । । ८.२७९ । ।

पाणिं उद्यम्य दण्डं वा पाणिच्छेदनं अर्हति ।
पादेन प्रहरन्कोपात्पादच्छेदनं अर्हति । । ८.२८० । ।

सहासनं अभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् । । ८.२८१ । ।

अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतो मेढ्रं अवशर्धयतो गुदम् । । ८.२८२ । ।

केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च । । ८.२८३ । ।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्निष्कान्प्रवास्यस्त्वस्थिभेदकः । । ८.२८४ । ।

वनस्पतीनां सर्वेषां उपभोगो यथा यथा ।
यथा तथा दमः कार्यो हिंसायां इति धारणा । । ८.२८५ । ।

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा । । ८.२८६ । ।

अङ्गावपीडनायां च व्रणशोनितयोस्तथा ।
समुत्थानव्ययं दाप्यः सर्वदण्डं अथापि वा । । ८.२८७ । ।

द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् । । ८.२८८ । ।

चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु ।
मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च । । ८.२८९ । ।

यानस्य चैव यातुश्च यानस्वामिन एव च ।
दशातिवर्तनान्याहुः शेषे दण्डो विधीयते । । ८.२९० । ।

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च । । ८.२९१ । ।

छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।
आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् । । ८.२९२ । ।

यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् । । ८.२९३ । ।

प्राजकश्चेद्भवेदाप्तः प्राजको दण्डं अर्हति ।
युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् । । ८.२९४ । ।

स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः । । ८.२९५ । ।

मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु । । ८.२९६ । ।

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु । । ८.२९७ । ।

गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः ।
माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने । । ८.२९८ । ।

भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः ।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा । । ८.२९९ । ।

पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन ।
अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौरकिल्बिषम् । । ८.३०० । ।

एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये । । ८.३०१ । ।

परमं यत्नं आतिष्ठेत्स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते । । ८.३०२ । ।

अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् । । ८.३०३ । ।

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः । । ८.३०४ । ।

यदधीते यद्यजते यद्ददाति यदर्चति ।
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् । । ८.३०५ । ।

रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः । । ८.३०६ । ।

योऽरक्षन्बलिं आदत्ते करं शुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् । । ८.३०७ । ।

अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तं आहुः सर्वलोकस्य समग्रमलहारकम् । । ८.३०८ । ।

अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् ।
अरक्षितारं अत्तारं नृपं विद्यादधोगतिम् । । ८.३०९ । ।

अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च । । ८.३१० । ।

निग्रहेण हि पापानां साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः । । ८.३११ । ।

क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां च कुर्वता हितं आत्मनः । । ८.३१२ । ।

यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते ।
यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति । । ८.३१३ । ।

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्स्तेयं एवंकर्मास्मि शाधि माम् । । ८.३१४ । ।

स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
शक्तिं चोभयतस्तीक्ष्णां आयसं दण्डं एव वा । । ८.३१५ । ।

शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् । । ८.३१६ । ।

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् । । ८.३१७ । ।

राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा । । ८.३१८ । ।

यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।
स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् । । ८.३१९ । ।

धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् । । ८.३२० । ।

तथा धरिममेयानां शतादभ्यधिके वधः ।
सुवर्णरजतादीनां उत्तमानां च वाससाम् । । ८.३२१ । ।

पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनं इष्यते ।
शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् । । ८.३२२ । ।

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधं अर्हति । । ८.३२३ । ।

महापशूनां हरणे शस्त्राणां औषधस्य च ।
कालं आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् । । ८.३२४ । ।

गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने ।
पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः । । ८.३२५ । ।

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च । । ८.३२६ । ।

वेणुवैदलभाण्डानां लवणानां तथैव च ।
मृण्मयानां च हरणे मृदो भस्मन एव च । । ८.३२७ । ।

मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् । । ८.३२८ । ।

अन्येषां चैवमादीनां मद्यानां ओदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः । । ८.३२९ । ।

पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः । । ८.३३० । ।

परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः । । ८.३३१ । ।

स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् ।
निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् । । ८.३३२ । ।

यस्त्वेतान्युपक्ल्प्तानि द्रव्याणि स्तेनयेन्नरः ।
तं आद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् । । ८.३३३ । ।

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः । । ८.३३४ । ।

पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति । । ८.३३५ । ।

कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद्दण्ड्यः सहस्रं इति धारणा । । ८.३३६ । ।

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च । । ८.३३७ । ।

ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः । । ८.३३८ । ।

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थं अस्तेयं मनुरब्रवीत् । । ८.३३९ । ।

योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः । । ८.३४० । ।

द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुं अर्हति । । ८.३४१ । ।

असंदितानां संदाता संदितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् । । ८.३४२ । ।

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् । । ८.३४३ । ।

ऐन्द्रं स्थानं अभिप्रेप्सुर्यशश्चाक्षयं अव्ययम् ।
नोपेक्षेत क्षणं अपि राजा साहसिकं नरम् । । ८.३४४ । ।

वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः ।
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः । । ८.३४५ । ।

साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति । । ८.३४६ । ।

न मित्रकारणाद्राजा विपुलाद्वा धनागमात् ।
समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् । । ८.३४७ । ।

शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते । । ८.३४८ । ।

आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति । । ८.३४९ । ।

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनं आयान्तं हन्यादेवाविचारयन् । । ८.३५० । ।

नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युं ऋच्छति । । ८.३५१ । ।

परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः ।
उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् । । ८.३५२ । ।

तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।
येन मूलहरोऽधर्मः सर्वनाशाय कल्पते । । ८.३५३ । ।

परस्य पत्न्या पुरुषः संभाषां योजयन्रहः ।
पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् । । ८.३५४ । ।

यस्त्वनाक्षारितः पूर्वं अभिभाषते कारणात् ।
न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः । । ८.३५५ । ।

परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।
नदीनां वापि संभेदे स संग्रहणं आप्नुयात् । । ८.३५६ । ।

उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् । । ८.३५७ । ।

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् । । ८.३५८ । ।

अब्राह्मणः संग्रहणे प्राणान्तं दण्डं अर्हति ।
चतुर्णां अपि वर्णानां दारा रक्ष्यतमाः सदा । । ८.३५९ । ।

भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा ।
संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः । । ८.३६० । ।

न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस्तु सुवर्णं दण्डं अर्हति । । ८.३६१ । ।

नैष चारणदारेषु विधिर्नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च । । ८.३६२ । ।

किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् ।
प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च । । ८.३६३ । ।

योऽकामां दूषयेत्कन्यां स सद्यो वधं अर्हति ।
सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः । । ८.३६४ । ।

कन्यां भजन्तीं उत्कृष्टं न किं चिदपि दापयेत् ।
जघन्यं सेवमानां तु संयतां वासयेद्गृहे । । ८.३६५ । ।

उत्तमां सेवमानस्तु जघन्यो वधं अर्हति ।
शुल्कं दद्यात्सेवमानः समां इच्छेत्पिता यदि । । ८.३६६ । ।

अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् । । ८.३६७ । ।

सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदं आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये । । ८.३६८ । ।

कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश । । ८.३६९ । ।

या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यं अर्हति ।
अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा । । ८.३७० । ।

भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते । । ८.३७१ । ।

पुमांसं दाहयेत्पापं शयने तप्त आयसे ।
अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् । । ८.३७२ । ।

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावदेव तु । । ८.३७३ । ।

शूद्रो गुप्तं अगुप्तं वा द्वैजातं वर्णं आवसन् ।
अगुप्तं अङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते । । ८.३७४ । ।

वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति । । ८.३७५ । ।

ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् । । ८.३७६ । ।

उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना । । ८.३७७ । ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् ।
शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः । । ८.३७८ । ।

मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् । । ८.३७९ । ।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।
राष्ट्रादेनं बहिः कुर्यात्समग्रधनं अक्षतम् । । ८.३८० । ।

न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।
तस्मादस्य वधं राजा मनसापि न चिन्तयेत् । । ८.३८१ । ।

वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्यां अगुप्तायां तावुभौ दण्डं अर्हतः । । ८.३८२ । ।

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः । । ८.३८३ । ।

क्षत्रियायां अगुप्तायां वैश्ये पञ्चशतं दमः ।
मूत्रेण मौण्ड्यं इच्छेत्तु क्षत्रियो दण्डं एव वा । । ८.३८४ । ।

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् । । ८.३८५ । ।

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् । । ८.३८६ । ।

एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
सांराज्यकृत्सजात्येषु लोके चैव यशस्करः । । ८.३८७ । ।

ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि ।
शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् । । ८.३८८ । ।

न माता न पिता न स्त्री न पुत्रस्त्यागं अर्हति ।
त्यजन्नपतितानेतान्राज्ञा दण्ड्यः शतानि षट् । । ८.३८९ । ।

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान्नृपो धर्मं चिकीर्षन्हितं आत्मनः । । ८.३९० । ।

यथार्हं एतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् । । ८.३९१ । ।

प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।
अर्हावभोजयन्विप्रो दण्डं अर्हति माषकम् । । ८.३९२ । ।

श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् ।
तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् । । ८.३९३ । ।

अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ।
श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम् । । ८.३९४ । ।

श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम् ।
महाकुलीनं आर्यं च राजा संपूजयेत्सदा । । ८.३९५ । ।

शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः ।
न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् । । ८.३९६ । ।

तन्तुवायो दशपलं दद्यादेकपलाधिकम् ।
अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् । । ८.३९७ । ।

शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् । । ८.३९८ । ।

राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः । । ८.३९९ । ।

शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्योऽष्टगुणं अत्ययम् । । ८.४०० । ।

आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ । । ८.४०१ । ।

पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते ।
कुर्वीत चैषां प्रत्यक्षं अर्घसंस्थापनं नृपः । । ८.४०२ । ।

तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् ।
षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् । । ८.४०३ । ।

पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।
पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् । । ८.४०४ । ।

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः । । ८.४०५ । ।

दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् । । ८.४०६ । ।

गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे । । ८.४०७ । ।

यन्नावि किं चिद्दाशानां विशीर्येतापराधतः ।
तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः । । ८.४०८ । ।

एष नौयायिनां उक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस्तोये दैविके नास्ति निग्रहः । । ८.४०९ । ।

वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिं एव च ।
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् । । ८.४१० । ।

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् । । ८.४११ । ।

दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान्द्विजान् ।
अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् । । ८.४१२ । ।

शूद्रं तु कारयेद्दास्यं क्रीतं अक्रीतं एव वा ।
दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा । । ८.४१३ । ।

न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते ।
निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति । । ८.४१४ । ।

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको दण्डदासश्च सप्तैते दासयोनयः । । ८.४१५ । ।

भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् । । ८.४१६ । ।

विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानं आचरेत् ।
न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः । । ८.४१७ । ।

वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतां इदं जगत् । । ८.४१८ । ।

अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च ।
आयव्ययौ च नियतावाकरान्कोशं एव च । । ८.४१९ । ।

एवं सर्वानिमान्राजा व्यवहारान्समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् । । ८.४२० । ।