मनुस्मृतिः/तृतीयोध्यायः - 2

 

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतां अन्नं विधीयते । । ३.११८[१०८ं] । ।

राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् ।
अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः । । ३.११९[१०९ं] । ।

राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ ।
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः । । ३.१२०[११०ं] । ।

सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते । । ३.१२१[१११ं] । ।

पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् । । ३.१२२[११२ं] । ।

पितॄणां मासिकं श्राद्धं अन्वाहार्यं विदुर्बुधाः ।
तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः । । ३.१२३[११३ं] । ।

तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश्चैव यैश्चान्नैस्तान्प्रवक्ष्याम्यशेषतः । । ३.१२४[११४ं] । ।

द्वौ दैवे पितृकार्ये त्रीनेकैकं उभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे । । ३.१२५[११५ं] । ।

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः ।
पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् । । ३.१२६[११६ं] । ।

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी । । ३.१२७[११७ं] । ।

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् । । ३.१२८[११८ं] । ।

एकैकं अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलं आप्नोति नामन्त्रज्ञान्बहूनपि । । ३.१२९[११९ं] । ।

दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः । । ३.१३०[१२०ं] । ।

सहस्रं हि सहस्राणां अनृचां यत्र भुञ्जते ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः । । ३.१३१[१२१ं] । ।

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः । । ३.१३२[१२२ं] । ।

यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् । । ३.१३३[१२३ं] । ।

ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथापरे ।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे । । ३.१३४[१२४ं] । ।

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि । । ३.१३५[१२५ं] । ।

अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ।
अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः । । ३.१३६[१२६ं] । ।

ज्यायांसं अनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता ।
मन्त्रसंपूजनार्थं तु सत्कारं इतरोऽर्हति । । ३.१३७[१२७ं] । ।

न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् । । ३.१३८[१२८ं] । ।

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च । । ३.१३९[१२९ं] । ।

यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः ।
स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः । । ३.१४०[१३०ं] । ।

संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि । । ३.१४१[१३१ं] । ।

यथेरिणे बीजं उप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम् । । ३.१४२[१३२ं] । ।

दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च । । ३.१४३[१३३ं] । ।

कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपं अपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् । । ३.१४४[१३४ं] । ।

यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगं अथाध्वर्युं छन्दोगं तु समाप्तिकम् । । ३.१४५[१३५ं] । ।

एषां अन्यतमो यस्य भुञ्जीत श्राद्धं अर्चितः ।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी । । ३.१४६[१३६ं] । ।

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः । । ३.१४७[१३७ं] । ।

मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् । । ३.१४८[१३८ं] । ।

न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः । । ३.१४९[१३९ं] । ।

ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् । । ३.१५०[१४०ं] । ।

जटिलं चानधीयानं दुर्बालं कितवं तथा ।
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् । । ३.१५१[१४१ं] । ।

चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः । । ३.१५२[१४२ं] । ।

प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा । । ३.१५३[१४३ं] । ।

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च । । ३.१५४[१४४ं] । ।

कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे । । ३.१५५[१४५ं] । ।

भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ । । ३.१५६[१४६ं] । ।

अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा ।
ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः । । ३.१५७[१४७ं] । ।

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः । । ३.१५८[१४८ं] । ।

पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी । । ३.१५९[१४९ं] । ।

धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च । । ३.१६०[१५०ं] । ।

भ्रामरी गन्डमाली च श्वित्र्यथो पिशुनस्तथा ।
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च । । ३.१६१[१५१ं] । ।

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च । । ३.१६२[१५२ं] । ।

स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च । । ३.१६३[१५३ं] । ।

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः । । ३.१६४[१५४ं] । ।

आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च । । ३.१६५[१५५ं] । ।

औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः । । ३.१६६[१५६ं] । ।

एतान्विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान् ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् । । ३.१६७[१५७ं] । ।

ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते । । ३.१६८[१५८ं] । ।

अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।
दैवे हविषि पित्र्ये वा तं प्रवक्स्याम्यशेषतः । । ३.१६९[१५९ं] । ।

अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।
अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते । । ३.१७०[१६०ं] । ।

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः । । ३.१७१[१६१ं] । ।

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः । । ३.१७२[१६२ं] । ।

भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः । । ३.१७३[१६३ं] । ।

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः । । ३.१७४[१६४ं] । ।

तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् । । ३.१७५[१६५ं] । ।

अपाङ्क्त्यो यावतः पङ्क्त्यान्भुञ्जानाननुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः । । ३.१७६[१६६ं] । ।

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् । । ३.१७७[१६७ं] । ।

यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ् शूद्रयाजकः ।
तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् । । ३.१६८[१६८ं] । ।

वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रं आमपात्रं इवाम्भसि । । ३.१७९[१६९ं] । ।

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तं अप्रतिष्ठं तु वार्धुषौ । । ३.१८०[१७०ं] । ।

यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे । । ३.१८१[१७१ं] । ।

इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु ।
मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः । । ३.१८२[१७२ं] । ।

अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः ।
तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान्पङ्क्तिपावनान् । । ३.१८३[१७३ं] । ।

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः । । ३.१८४[१७४ं] । ।

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च । । ३.१८५[१७५ं] । ।

वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः । । ३.१८६[१७६ं] । ।

पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान् । । ३.१८७[१७७ं] । ।

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् । । ३.१८८[१७८ं] । ।

निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् ।
वायुवच्चानुगच्छन्ति तथासीनानुपासते । । ३.१८९[१७९ं] । ।

केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
कथं चिदप्यतिक्रामन्पापः सूकरतां व्रजेत् । । ३.१९०[१८०ं] । ।

आमन्त्रितस्तु यः श्राद्धे वृशल्या सह मोदते ।
दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते । । ३.१९१[१८१ं] । ।

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः । । ३.१९२[१८२ं] । ।

यस्मादुत्पत्तिरेतेषां सर्वेषां अप्यशेषतः ।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत । । ३.१९३[१८३ं] । ।

मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः । । ३.१९४[१८४ं] । ।

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः । । ३.१९५[१८५ं] । ।

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः । । ३.१९६[१८६ं] । ।

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः । । ३.१९७[१८७ं] । ।

सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः । । ३.१९८[१८८ं] । ।

अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा ।
अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् । । ३.१९९[१८९ं] । ।

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् । । ३.२००[१९०ं] । ।

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः । । ३.२०१[१९१ं] । ।

राजतैर्भाजनैरेषां अथो वा रजतान्वितैः ।
वार्यपि श्रद्धया दत्तं अक्षयायोपकल्पते । । ३.२०२[१९२ं] । ।

दैवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वं आप्यायनं स्मृतम् । । ३.२०३[१९३ं] । ।

तेषां आरक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्सांसि विप्रलुम्पन्ति श्राद्धं आरक्षवर्जितम् । । ३.२०४[१९४ं] । ।

दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः । । ३.२०५[१९५ं] । ।

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् । । ३.२०६[१९६ं] । ।

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा । । ३.२०७[१९७ं] । ।

आसनेषूपक्ल्प्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत् । । ३.२०८[१९८ं] । ।

उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम् । । ३.२०९[१९९ं] । ।

तेषां उदकं आनीय सपवित्रांस्तिलानपि ।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह । । ३.२१०[२००ं] । ।

अग्नेः सोमयमाभ्यां च कृत्वाप्यायनं आदितः ।
हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन् । । ३.२११[२०१ं] । ।

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते । । ३.२१२[२०२ं] । ।

अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान् ।
लोकस्याप्यायने युक्तान्श्राद्धदेवान्द्विजोत्तमान् । । ३.२१३[२०३ं] । ।

अपसव्यं अग्नौ कृत्वा सर्वं आवृत्य विक्रमम् ।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि । । ३.२१४[२०४ं] । ।

त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः । । ३.२१५[२०५ं] । ।

न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् । । ३.२१६[२०६ं] । ।

आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् ।
षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् । । ३.२१७[२०७ं] । ।

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः । । ३.२१८[२०८ं] । ।

पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।
तानेव विप्रानासीनान्विधिवत्पूर्वं आशयेत् । । ३.२१९[२०९ं] । ।

ध्रियमाणे तु पितरि पूर्वेषां एव निर्वपेत् ।
विप्रवद्वापि तं श्राद्धे स्वकं पितरं आशयेत् । । ३.२२०[२१०ं] । ।

पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः ।
पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् । । ३.२२१[२११ं] । ।

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ।
कामं वा समनुज्ञातः स्वयं एव समाचरेत् । । ३.२२२[२१२ं] । ।

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेत स्वधैषां अस्त्विति ब्रुवन् । । ३.२२३[२१३ं] । ।

पाणिभ्यां तूपसंगृह्य स्वयं अन्नस्य वर्धितम् ।
विप्रान्तिके पितॄन्ध्यायन्शनकैरुपनिक्षिपेत् । । ३.२२४[२१४ं] । ।

उभयोर्हस्तयोर्मुक्तं यदन्नं उपनीयते ।
तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः । । ३.२२५[२१५ं] । ।

गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु ।
विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः । । ३.२२६[२१६ं] । ।

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च । । ३.२२७[२१७ं] । ।

उपनीय तु तत्सर्वं शनकैः सुसमाहितः ।
परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन् । । ३.२२८[२१८ं] । ।

नास्रं आपातयेज्जातु न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् । । ३.२२९[२१९ं] । ।

अस्रं गमयति प्रेतान्कोपोऽरीननृतं शुनः ।
पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् । । ३.२३०[२२०ं] । ।

यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः ।
ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणां एतदीप्सितम् । । ३.२३१[२२१ं] । ।

स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश्च पुराणानि खिलानि च । । ३.२३२[२२२ं] । ।

हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः ।
अन्नाद्येनासकृच्चैतान्गुणैश्च परिचोदयेत् । । ३.२३३[२२३ं] । ।

व्रतस्थं अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम् । । ३.२३४[२२४ं] । ।

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचं अक्रोधं अत्वराम् । । ३.२३५[२२५ं] । ।

अत्युष्णं सर्वं अन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् । । ३.२३६[२२६ं] । ।

यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः । । ३.२३७[२२७ं] । ।

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते । । ३.२३८[२२८ं] । ।

चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् । । ३.२३९[२२९ं] । ।

होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ।
दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम् । । ३.२४०[२३०ं] । ।

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः । । ३.२४१[२३१ं] । ।

खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तं अप्यपनयेत्पुनः । । ३.२४२[२३२ं] । ।

ब्राह्मणं भिक्षुकं वापि भोजनार्थं उपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् । । ३.२४३[२३३ं] । ।

सार्ववर्णिकं अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतां अग्रतो विकिरन्भुवि । । ३.२४४[२३४ं] । ।

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः । । ३.२४५[२३५ं] । ।

उच्छेषणां भूमिगतं अजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते । । ३.२४६[२३६ं] । ।

आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच्छ्राद्धं पिण्डं एकं च निर्वपेत् । । ३.२४७[२३७ं] । ।

सहपिण्डक्रियायां तु कृतायां अस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः । । ३.२४८[२३८ं] । ।

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रं अवाक्शिराः । । ३.२४९[२३९ं] । ।

श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति ।
तस्याः पुरीषे तं मासं पितरस्तस्य शेरते । । ३.२५०[२४०ं] । ।

पृष्ट्वा स्वदितं इत्येवं तृप्तानाचामयेत्ततः ।
आचान्तांश्चानुजानीयादभितो रम्यतां इति । । ३.२५१[२४१ं] । ।

स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु । । ३.२५२[२४२ं] । ।

ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः । । ३.२५३[२४३ं] । ।

पित्र्ये स्वदितं इत्येव वाच्यं गोष्ठे तु सुशृतम् ।
संपन्नं इत्यभ्युदये दैवे रुचितं इत्यपि । । ३.२५४[२४४ं] । ।

अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः ।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः । । ३.२५५[२४५ं] । ।

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः । । ३.२५६[२४६ं] । ।

मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्सारलवणं चैव प्रकृत्या हविरुच्यते । । ३.२५७[२४७ं] । ।

विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः ।
दक्षिणां दिशं आकाङ्क्षन्याचेतेमान्वरान्पितॄन् । । ३.२५८[२४८ं] । ।

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति । । ३.२५९[२४९ं] । ।

एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
गां विप्रं अजं अग्निं वा प्राशयेदप्सु वा क्षिपेत् । । ३.२६०[२५०ं] । ।

पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते ।
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा । । ३.२६१[२५१ं] । ।

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डं अद्यात्सम्यक्सुतार्थिनी । । ३.२६२[२५२ं] । ।

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा । । ३.२६३[२५३ं] । ।

प्रक्साल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् । । ३.२६४[२५४ं] । ।

उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः । । ३.२६५[२५५ं] । ।

हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः । । ३.२६६[२५६ं] । ।

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृनाम् । । ३.२६७[२५७ं] । ।

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै । । ३.२६८[२५८ं] । ।

षण्मासांश्छागमांसेन पार्षतेन च सप्त वै ।
अष्टावेनस्य मांसेन रौरवेण नवैव तु । । ३.२६९[२५९ं] । ।

दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु । । ३.२७०[२६०ं] । ।

संवत्सरं तु गव्येन पयसा पायसेन च ।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । । ३.२७१[२६१ं] । ।

कालशाकं महाशल्काः खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः । । ३.२७२[२६२ं] । ।

यत्किं चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
तदप्यक्षयं एव स्याद्वर्षासु च मघासु च । । ३.२७३[२६३ं] । ।

अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च । । ३.२७४[२६४ं] । ।

यद्यद्ददाति विधिवत्सम्यक्श्रद्धासमन्वितः ।
तत्तत्पितॄणां भवति परत्रानन्तं अक्षयम् । । ३.२७५[२६५ं] । ।

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः । । ३.२७६[२६६ं] । ।

युक्षु कुर्वन्दिनर्क्षेषु सर्वान्कामान्समश्नुते ।
अयुक्षु तु पितॄन्सर्वान्प्रजां प्राप्नोति पुष्कलाम् । । ३.२७७[२६७ं] । ।

यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते । । ३.२७८[२६८ं] । ।

प्राचीनावीतिना सम्यगपसव्यं अतन्द्रिणा ।
पित्र्यं आ निधनात्कार्यं विधिवद्दर्भपाणिना । । ३.२७९[२६९ं] । ।

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते । । ३.२८०[२७०ं] । ।

अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकं अन्वहम् । । ३.२८१[२७१ं] । ।

न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धं आहिताग्नेर्द्विजन्मनः । । ३.२८२[२७२ं] । ।

यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ।
तेनैव कृत्स्नं आप्नोति पितृयज्ञक्रियाफलम् । । ३.२८३[२७३ं] । ।

वसून्वदन्ति तु पितॄन्रुद्रांश्चैव पितामहान् ।
प्रपितामहांस्तथादित्यान्श्रुतिरेषा सनातनी । । ३.२८४[२७४ं] । ।

विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् । । ३.२८५[२७५ं] । ।

एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयतां इति । । ३.२८६[२७६ं] । ।