राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । संभवश्च यथा तस्य सिद्धिश्च परमा यथा । । ७.१ । । |
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् । । ७.२ । । |
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुतो भयात् । रक्षार्थं अस्य सर्वस्य राजानं असृजत्प्रभुः । । ७.३ । । |
इन्द्रानिलयमार्काणां अग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः । । ७.४ । । |
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा । । ७.५ । । |
तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् । । ७.६ । । |
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः । । ७.७ । । |
बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति । । ७.८ । । |
एकं एव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् । । ७.९ । । |
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः । । ७.१० । । |
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः । । ७.११ । । |
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः । । ७.१२ । । |
तस्माद्धर्मं यं इष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् । । ७.१३ । । |
तस्यार्थे सर्वभूतानां गोप्तारं धर्मं आत्मजम् । ब्रह्मतेजोमयं दण्डं असृजत्पूर्वं ईश्वरः । । ७.१४ । । |
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च । । ७.१५ । । |
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु । । ७.१६ । । |
स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णां आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः । । ७.१७ । । |
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः । । ७.१८ । । |
समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः । । ७.१९ । । |
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः । । ७.२० । । |
अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् । । ७.२१ । । |
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते । । ७.२२ । । |
देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः । । ७.२३ । । |
दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् । । ७.२४ । । |
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति । । ७.२५ । । |
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् । । ७.२६ । । |
तं राजा प्रणयन्सम्यक्त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते । । ७.२७ । । |
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपं एव सबान्धवम् । । ७.२८ । । |
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् । । ७.२९ । । |
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च । । ७.३० । । |
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता । । ७.३१ । । |
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । । ७.३२ । । |
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि । । ७.३३ । । |
अतस्तु विपरीतस्य नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि । । ७.३४ । । |
स्वे स्वे धर्मे निविष्टानां सर्वेषां अनुपूर्वशः । वर्णानां आश्रमाणां च राजा सृष्टोऽभिरक्षिता । । ७.३५ । । |
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः । । ७.३६ । । |
ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने । । ७.३७ । । |
वृद्धांश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते । । ७.३८ । । |
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् । । ७.३९ । । |
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे । । ७.४० । । |
वेनो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च । । ७.४१ । । |
पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः । । ७.४२ । । |
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः । । ७.४३ । । |
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः । । ७.४४ । । |
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् । । ७.४५ । । |
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु । । ७.४६ । । |
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः । । ७.४७ । । |
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः । । ७.४८ । । |
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ । । ७.४९ । । |
पानं अक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे । । ७.५० । । |
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टं एतत्त्रिकं सदा । । ७.५१ । । |
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनं आत्मवान् । । ७.५२ । । |
व्यसनस्य च मृत्योश्च व्यसनं कष्टं उच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः । । ७.५३ । । |
मौलाञ् शास्त्रविदः शूरांल्लब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् । । ७.५४ । । |
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं तु राज्यं महोदयम् । । ७.५५ । । |
तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च । । ७.५६ । । |
तेषां स्वं स्वं अभिप्रायं उपलभ्य पृथक्पृथक् । समस्तानां च कार्येषु विदध्याद्धितं आत्मनः । । ७.५७ । । |
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् । । ७.५८ । । |
नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् । । ७.५९ । । |
अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तॄनमात्यान्सुपरीक्षितान् । । ७.६० । । |
निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् । । ७.६१ । । |
तेषां अर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने । । ७.६२ । । |
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् । । ७.६३ । । |
अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते । । ७.६४ । । |
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ । । ७.६५ । । |
दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः । । ७.६६ । । |
स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । आकारं इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् । । ७.६७ । । |
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नं आतिष्ठेद्यथात्मानं न पीडयेत् । । ७.६८ । । |
जाङ्गलं सस्यसंपन्नं आर्यप्रायं अनाविलम् । रम्यं आनतसामन्तं स्वाजीव्यं देशं आवसेत् । । ७.६९ । । |
धन्वदुर्गं महीदुर्गं अब्दुर्गं वार्क्षं एव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् । । ७.७० । । |
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते । । ७.७१ । । |
त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः । त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः । । ७.७२ । । |
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् । । ७.७३ । । |
एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते । । ७.७४ । । |
तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च । । ७.७५ । । |
तस्य मध्ये सुपर्याप्तं कारयेद्गृहं आत्मनः । गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् । । ७.७६ । । |
तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूपगुणान्वीताम् । । ७.७७ । । |
पुरोहितं च कुर्वीत वृणुयादेव च र्त्विजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च । । ७.७८ । । |
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान्धनानि च । । ७.७९ । । |
सांवत्सरिकं आप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु । । ७.८० । । |
अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् । । ७.८१ । । |
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणां अक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते । । ७.८२ । । |
न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः । । ७.८३ । । |
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । वरिष्ठं अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् । । ७.८४ । । |
समं अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रं अनन्तं वेदपारगे । । ७.८५ । । |