अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः । । १०.१ । । |
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् । । १०.२ । । |
वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः । । १०.३ । । |
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः । । १०.४ । । |
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते । । १०.५ । । |
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् । । १०.६ । । |
अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् । । १०.७ । । |
ब्राह्मणाद्वैश्यकन्यायां अम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते । । १०.८ । । |
क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते । । १०.९ । । |
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः । । १०.१० । । |
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ । । १०.११ । । |
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः । । १०.१२ । । |
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि । । १०.१३ । । |
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते । । १०.१४ । । |
ब्राह्मणादुग्रकन्यायां आवृतो नाम जायते । आभीरोऽम्बष्ठकन्यायां आयोगव्यां तु धिग्वणः । । १०.१५ । । |
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः । । १०.१६ । । |
वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु । प्रतीपं एते जायन्ते परेऽप्यपसदास्त्रयः । । १०.१७ । । |
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः । । १०.१८ । । |
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ठ्यां उत्पन्नो वेण उच्यते । । १०.१९ । । |
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् । । १०.२० । । |
व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च । । १०.२१ । । |
झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च । । १०.२२ । । |
वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च । । १०.२३ । । |
व्यभिचारेण वर्णानां अवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः । । १०.२४ । । |
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः । । १०.२५ । । |
सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः तथायोगव एव च क्षत्रजातिश्च । । १०.२६ । । |
एते षट्सदृशान्वर्णाञ् जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु । । १०.२७ । । |
यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते । आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् । । १०.२८ । । |
ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् । । १०.२९ । । |
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते । । १०.३० । । |
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः । हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु । । १०.३१ । । |
प्रसाधनोपचारज्ञं अदासं दासजीवनम् । सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे । । १०.३२ । । |
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते । नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये । । १०.३३ । । |
निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तं इति यं प्राहुरार्यावर्तनिवासिनः । । १०.३४ । । |
मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः । । १०.३५ । । |
कारावरो निषादात्तु चर्मकारः प्रसूयते । वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ । । १०.३६ । । |
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यां एव जायते । । १०.३७ । । |
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जनगर्हितः । । १०.३८ । । |
निषादस्त्री तु चण्डालात्पुत्रं अन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानां अपि गर्हितम् । । १०.३९ । । |
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । । १०.४० । । |
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः । । १०.४१ । । |
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः । । १०.४२ । । |
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च । । १०.४३ । । |
पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः । पारदापह्लवाश्चीनाः किराता दरदाः खशाः । । १०.४४ । । |
मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः । । १०.४५ । । |
ये द्विजानां अपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानां एव कर्मभिः । । १०.४६ । । |
सूतानां अश्वसारथ्यं अम्बष्ठानां चिकित्सनम् । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः । । १०.४७ । । |
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चुमद्गूनां आरण्यपशुहिंसनम् । । १०.४८ । । |
क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् । । १०.४९ । । |
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः । । १०.५० । । |
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः । अपपात्राश्च कर्तव्या धनं एषां श्वगर्दभम् । । १०.५१ । । |
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसं अलङ्कारः परिव्रज्या च नित्यशः । । १०.५२ । । |
न तैः समयं अन्विच्छेत्पुरुषो धर्मं आचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह । । १०.५३ । । |
अन्नं एषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च । । १०.५४ । । |
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः । । १०.५५ । । |