षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकं एव वा । । ३.१ । । |
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रमं आवसेत् । । ३.२ । । |
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनं अर्हयेत्प्रथमं गवा । । ३.३ । । |
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् । । ३.४ । । |
असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । ३.५ । । |
महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् । । ३.६ । । |
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् । क्षयामयाव्यपस्मारि श्वित्रिकुष्ठिकुलानि च । । ३.७ । । |
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् । । ३.८ । । |
न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम् । । ३.९ । । |
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीं उद्वहेत्स्त्रियम् । । ३.१० । । |
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । । ३.११ । । |
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानां इमाः स्युः क्रमशोऽवराः । । ३.१२ । । |
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः । । ३.१३ । । |
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते । । ३.१४ । । |
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् । । ३.१५ । । |
शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च । शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः । । ३.१६ । । |
शूद्रां शयनं आरोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते । । ३.१७ । । |
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति । । ३.१८ । । |
वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते । । ३.१९ । । |
चतुर्णां अपि वर्णानं प्रेत्य चेह हिताहितान् । अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत । । ३.२० । । |
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः । । ३.२१ । । |
यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ । तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् । । ३.२२ । । |
षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान् । । ३.२३ । । |
चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः । राक्षसं क्षत्रियस्यैकं आसुरं वैश्यशूद्रयोः । । ३.२४ । । |
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह । पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन । । ३.२५ । । |
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ । गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ । । ३.२६ । । |
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः । । ३.२७ । । |
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते । । ३.२८ । । |
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते । । ३.२९ । । |
सहोभौ चरतां धर्मं इति वाचानुभाष्य च । कन्याप्रदानं अभ्यर्च्य प्राजापत्यो विधिः स्मृतः । । ३.३० । । |
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते । । ३.३१ । । |
इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः । । ३.३२ । । |
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते । । ३.३३ । । |
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः । । ३.३४ । । |
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते । इतरेषां तु वर्णानां इतरेतरकाम्यया । । ३.३५ । । |
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम । । ३.३६ । । |
दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् । ब्राह्मीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् । । ३.३७ । । |
दैवोढाजः सुतश्चैव सप्त सप्त परावरान् । आर्षोढाजः सुतस्त्रींस्त्रीन्षट्षट्कायोढजः सुतः । । ३.३८ । । |
ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः । । ३.३९ । । |
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः । । ३.४० । । |
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः । । ३.४१ । । |
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान्विवर्जयेत् । । ३.४२ । । |
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि । । ३.४३ । । |
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने । । ३.४४ । । |
ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा । पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया । । ३.४५ । । |
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुर्भिरितरैः सार्धं अहोभिः सद्विगर्हितैः । । ३.४६ । । |
तासां आद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः । । ३.४७ । । |
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् । । ३.४८ । । |
पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः । । ३.४९ । । |
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् । । ३.५० । । |
न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कं अण्वपि । गृह्णञ् शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी । । ३.५१ । । |
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् । । ३.५२ । । |
आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् । अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः । । ३.५३ । । |
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणां आनृशंस्यं च केवलम् । । ३.५४ । । |
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा । पूज्या भूषयितव्याश्च बहुकल्याणं ईप्सुभिः । । ३.५५ । । |
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः । । ३.५६ । । |
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा । । ३.५७ । । |
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः । तानि कृत्याहतानीव विनश्यन्ति समन्ततः । । ३.५८ । । |
तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च । । ३.५९ । । |
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् । । ३.६० । । |
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते । । ३.६१ । । |
स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् । तस्यां त्वरोचमानायां सर्वं एव न रोचते । । ३.६२ । । |
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । । ३.६३ । । |
शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया । । ३.६४ । । |
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः । । ३.६५ । । |
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः । । ३.६६ । । |
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही । । ३.६७[५७ं] । । |
पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् । । ३.६८[५८ं] । । |
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पञ्च क्ल्प्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् । । ३.६९[५९ं] । । |
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् । । ३.७०[६०ं] । । |
पञ्चैतान्यो महाअयज्ञान्न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते । । ३.७१[६१ं] । । |
देवतातिथिभृत्यानां पितॄणां आत्मनश्च यः । न निर्वपति पञ्चानां उच्छ्वसन्न स जीवति । । ३.७२[६२ं] । । |
अहुतं च हुतं चैव तथा प्रहुतं एव च । ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते । । ३.७३[६३ं] । । |
जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः । ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् । । ३.७४[६४ं] । । |
स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि । दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् । । ३.७५[६५ं] । । |
अग्नौ प्रास्ताहुतिः सम्यगादित्यं उपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । ३.७६[६६ं] । । |
यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । तथा गृहस्थं आश्रित्य वर्तन्ते सर्व आश्रमाः । । ३.७७[६७ं] । । |
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही । । ३.७८[६८ं] । । |
स संधार्यः प्रयत्नेन स्वर्गं अक्षयं इच्छता । सुखं चेहेच्छतात्यन्तं योऽधार्यो दुर्बलेन्द्रियैः । । ३.७९[६९ं] । । |
ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता । । ३.८०[७०ं] । । |
स्वाध्यायेनार्चयेत र्षीन्होमैर्देवान्यथाविधि । पितॄञ् श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा । । ३.८१[७१ं] । । |
कुर्यादहरहः श्राद्धं अन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिं आवहन् । । ३.८२[७२ं] । । |
एकं अप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके । न चैवात्राशयेत्किं चिद्वैश्वदेवं प्रति द्विजम् । । ३.८३[७३ं] । । |
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होमं अन्वहम् । । ३.८४[७४ं] । । |
अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च । । ३.८५[७५ं] । । |
कुह्वै चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः । । ३.८६[७६ं] । । |
एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् । । ३.८७[७७ं] । । |
मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् । । ३.८८[७८ं] । । |
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् । । ३.८९[७९ं] । । |
विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च । । ३.९०[८०ं] । । |
पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् । । ३.९१[८१ं] । । |
शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि । । ३.९२[८२ं] । । |
एवं यः सर्वभूतानि ब्राह्मणो नित्यं अर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना । । ३.९३[८३ं] । । |
कृत्वैतद्बलिकर्मैवं अतिथिं पूर्वं आशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । । ३.९४[८४ं] । । |
यत्पुण्यफलं आप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलं आप्नोति भिक्षां दत्त्वा द्विजो गृही । । ३.९५[८५ं] । । |
भिक्षां अप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् । । ३.९६[८६ं] । । |
नश्यन्ति हव्यकव्यानि नराणां अविजानताम् । भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः । । ३.९७[८७ं] । । |
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु । निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् । । ३.९८[८८ं] । । |
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । । ३.९९[८९ं] । । |
शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः । सर्वं सुकृतं आदत्ते ब्राह्मणोऽनर्चितो वसन् । । ३.१००[९०ं] । । |
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन । । ३.१०१[९१ं] । । |
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते । । ३.१०२[९२ं] । । |
नैकग्रामीणं अतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा । । ३.१०३[९३ं] । । |
उपासते ये गृहस्थाः परपाकं अबुद्धयः । तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः । । ३.१०४[९४ं] । । |
अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना । काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत् । । ३.१०५[९५ं] । । |
न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यं आयुष्यं स्वर्ग्यं वातिथिपूजनम् । । ३.१०६[९६ं] । । |
आसनावसथौ शय्यां अनुव्रज्यां उपासनाम् । उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् । । ३.१०७[९७ं] । । |
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् । । ३.१०८[९८ं] । । |
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः । । ३.१०९[९९ं] । । |
न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च । । ३.११०[१००ं] । । |
यदि त्वतिथिधर्मेण क्षत्रियो गृहं आव्रजेत् । भुक्तवत्सु च विप्रेषु कामं तं अपि भोजयेत् । । ३.१११[१०१ं] । । |
वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् । । ३.११२[१०२ं] । । |
इतरानपि सख्यादीन्सम्प्रीत्या गृहं आगतान् । प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया । । ३.११३[१०३ं] । । |
सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः । अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् । । ३.११४[१०४ं] । । |
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिं आत्मनः । । ३.११५[१०५ं] । । |
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती । । ३.११६[१०६ं] । । |
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ३.११७[१०७ं] । । |