मनुस्मृतिः/पञ्चमोध्यायः - 1

 

श्रुत्वैतानृषयो धर्मान्स्नातकस्य यथोदितान् ।
इदं ऊचुर्महात्मानं अनलप्रभवं भृगुम् । । ५.१ । ।

एवं यथोक्तं विप्राणां स्वधर्मं अनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो । । ५.२ । ।

स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर्विप्रान्जिघांसति । । ५.३ । ।

अनभ्यासेन वेदानां आचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ् जिघांसति । । ५.४ । ।

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनां अमेध्यप्रभवानि च । । ५.५ । ।

लोहितान्वृक्षनिर्यासान्वृश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् । । ५.६ । ।

वृथा कृसरसंयावं पायसापूपं एव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च । । ५.७ । ।

अनिर्दशाया गोः क्षीरं औष्ट्रं ऐकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः । । ५.८ । ।

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि । । ५.९ । ।

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः । । ५.१० । ।

क्रव्यादाञ् शकुनान्सर्वांस्तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् । । ५.११ । ।

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च दात्यूहं शुकसारिके । । ५.१२ । ।

प्रतुदाञ् जालपादांश्च कोयष्टिनखविष्किरान् ।
निमज्जतश्च मत्स्यादान्सौनं वल्लूरं एव च । । ५.१३ । ।

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः । । ५.१४ । ।

यो यस्य मांसं अश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् । । ५.१५ । ।

पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवान्सिंहतुण्डाश्च सशल्काश्चैव सर्वशः । । ५.१६ । ।

न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।
भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा । । ५.१७ । ।

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।
भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतह् । । ५.१८ । ।

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः । । ५.१९ । ।

अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायाणं वापि शेषेषूपवसेदहः । । ५.२० । ।

संवत्सरस्यैकं अपि चरेत्कृच्छ्रं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः । । ५.२१ । ।

यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थं अगस्त्यो ह्याचरत्पुरा । । ५.२२ । ।

बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च । । ५.२३ । ।

यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यं अगर्हितम् ।
तत्पर्युषितं अप्याद्यं हविःशेषं च यद्भवेत् । । ५.२४ । ।

चिरस्थितं अपि त्वाद्यं अस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसश्चैव विक्रिया । । ५.२५ । ।

एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यं अशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने । । ५.२६ । ।

प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस्तु प्राणानां एव चात्यये । । ५.२७ । ।

प्राणस्यान्नं इदं सर्वं प्रजापतिरकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् । । ५.२८ । ।

चराणां अन्नं अचरा दंष्ट्रिणां अप्यदंष्ट्रिणः ।
अहस्ताश्च सहस्तानां शूराणां चैव भीरवः । । ५.२९ । ।

नात्ता दुष्यत्यदन्नाद्यान्प्राणिनोऽहन्यहन्यपि ।
धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च । । ५.३० । ।

यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ।
अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते । । ५.३१ । ।

क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतं एव वा ।
देवान्पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति । । ५.३२ । ।

नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।
जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः । । ५.३३ । ।

न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः । । ५.३४ । ।

नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम् । । ५.३५ । ।

असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन ।
मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिं आस्थितः । । ५.३६ । ।

कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।
न त्वेव तु वृथा हन्तुं पशुं इच्छेत्कदा चन । । ५.३७ । ।

यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि । । ५.३८ । ।

यज्ञार्थं पशवः सृष्टाः स्वयं एव स्वयंभुवा ।
यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः । । ५.३९ । ।

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः । । ५.४० । ।

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः । । ५.४१ । ।

एष्वर्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः ।
आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् । । ५.४२ । ।

गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।
नावेदविहितां हिंसां आपद्यपि समाचरेत् । । ५.४३ । ।

या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसां एव तां विद्याद्वेदाद्धर्मो हि निर्बभौ । । ५.४४ । ।

योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवांश्च मृतश्चैव न क्व चित्सुखं एधते । । ५.४५ । ।

यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः सुखं अत्यन्तं अश्नुते । । ५.४६ । ।

यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च ।
तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन । । ५.४७ । ।

नाकृत्वा प्राणिनां हिंसां मांसं उत्पद्यते क्व चित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् । । ५.४८ । ।

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् । । ५.४९ । ।

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
न लोके प्रियतां याति व्याधिभिश्च न पीड्यते । । ५.५० । ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः । । ५.५१ । ।

स्वमांसं परमांसेन यो वर्धयितुं इच्छति ।
अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् । । ५.५२ । ।

वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् । । ५.५३ । ।

फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
न तत्फलं अवाप्नोति यन्मांसपरिवर्जनात् । । ५.५४ । ।

मां स भक्षयितामुत्र यस्य मांसं इहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः । । ५.५५ । ।

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला । । ५.५६ । ।

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
चतुर्णां अपि वर्णानां यथावदनुपूर्वशः । । ५.५७ । ।

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते । । ५.५८ ःः

दशाहं शावं आशौचं सपिण्डेषु विधीयते ।
अर्वाक्संचयनादस्थ्नां त्र्यहं एकाहं एव वा । । ५.५९ । ।

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने । । ५.६० । ।

यथेदं शावं आशौचं सपिण्डेषु विधीयते ।
जननेऽप्येवं एव स्यान्निपुणं शुद्धिं इच्छताम् । । ५.६१ । ।

सर्वेषां शावं आशौचं मातापित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः । । ५.६२[६१ं] । ।

निरस्य तु पुमाञ् शुक्रं उपस्पृस्यैव शुध्यति ।
बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् । । ५.६३[६२ं] । ।

अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः । । ५.६४[६३ं] । ।

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेतहारैः समं तत्र दशरात्रेण शुध्यति । । ५.६५[६४ं] । ।

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला । । ५.६६[६५ं] । ।

नृणां अकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।
निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते । । ५.६७[६६ं] । ।

ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।
अलंकृत्य शुचौ भूमावस्थिसंचयनादृते । । ५.६८[६७ं] । ।

नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया ।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहं एव तु । । ५.६९[६८ं] । ।

नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।
जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति । । ५.७०[६९ं] । ।

सब्रह्मचारिण्येकाहं अतीते क्षपणं स्मृतम् ।
जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । । ५.७१[७०ं] । ।

स्त्रीणां असंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः । । ५.७२[७१ं] । ।

अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ । । ५.७३[७२ं] । ।

संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः ।
असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः । । ५.७४[७३ं] । ।

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशम् ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् । । ५.७५[७४ं] । ।

अतिक्रान्ते दशाहे च त्रिरात्रं अशुचिर्भवेत् ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति । । ५.७६[७५ं] । ।

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलं आप्लुत्य शुद्धो भवति मानवः । । ५.७७[७६ं] । ।

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
सवासा जलं आप्लुत्य सद्य एव विशुध्यति । । ५.७८[७७ं] । ।

अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् । । ५.७९[७८ं] । ।

त्रिरात्रं आहुराशौचं आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च दिवारात्रं इति स्थितिः । । ५.८०[७९ं] । ।

श्रोत्रिये तूपसंपन्ने त्रिरात्रं अशुचिर्भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च । । ५.८१[८०ं] । ।

प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः ।
अश्रोत्रिये त्वहः कृत्स्नं अनूचाने तथा गुरौ । । ५.८२[८१ं] । ।

शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति । । ५.८३[८२ं] । ।

न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः ।
न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् । । ५.८४[८३ं] । ।

दिवाकीर्तिं उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति । । ५.८५[८४ं] । ।

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः । । ५.८६[८५ं] । ।

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गां आलभ्यार्कं ईक्ष्य वा । । ५.८७[८६ं] । ।

आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति । । ५.८८[८७ं] । ।

वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया । । ५.८९[८८ं] । ।