एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । वने वसेत्तु नियतो यथावद्विजितेन्द्रियः । । ६.१ । । |
गृहस्थस्तु यथा पश्येद्वलीपलितं आत्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् । । ६.२ । । |
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । । |
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः । । ६.४ । । |
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् । । ६.५ । । |
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च । । ६.६ । । |
यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् । । ६.७ । । |
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यं अनादाता सर्वभूतानुकम्पकः । । ६.८ । । |
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शं अस्कन्दयन्पर्व पौर्णमासं च योगतः । । ६.९ । । |
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दक्षस्यायनं एव च । । ६.१० । । |
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयं आहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् । । ६.११ । । |
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः । शेषं आत्मनि युञ्जीत लवणं च स्वयं कृतम् । । ६.१२ । । |
स्थलजाउदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् । । ६.१३ । । |
वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च । । ६.१४ । । |
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च । । ६.१५ । । |
न फालकृष्टं अश्नीयादुत्सृष्टं अपि केन चित् । न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च । । ६.१६ । । |
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा । । ६.१७ । । |
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा । षण्मासनिचयो वा स्यात्समानिचय एव वा । । ६.१८ । । |
नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः । । ६.१९ । । |
चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् । । ६.२० । । |
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः । । ६.२१ । । |
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः । । ६.२२ । । |
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः । । ६.२३ । । |
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेद्देहं आत्मनः । । ६.२४ । । |
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः । । ६.२५ । । |
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः । । ६.२६ । । |
तापसेष्वेव विप्रेषु यात्रिकं भैक्षं आहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु । । ६.२७ । । |
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । । ६.२८ । । |
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः । । ६.२९ । । |
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये । । ६.३० । । |
अपराजितां वास्थाय व्रजेद्दिशं अजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः । । ६.३१ । । |
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते । । ६.३२ । । |
वनेषु च विहृत्यैवं तृतीयं भागं आयुषः । चतुर्थं आयुषो भागं त्यक्वा सङ्गान्परिव्रजेत् । । ६.३३ । । |
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते । । ६.३४ । । |
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः । । ६.३५ । । |
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् । । ६.३६ । । |
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षं इच्छन्व्रजत्यधः । । ६.३७ । । |