मनुस्मृतिः/चतुर्थोध्यायः - 1


चतुर्थं आयुषो भागं उषित्वाद्यं गुरौ द्विजाः ।
द्वितीयं आयुषो भागं कृतदारो गृहे वसेत् । । ४.१ । ।

अद्रोहेणैव भूतानां अल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । । ४.२ । ।

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् । । ४.३ । ।

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यां अपि वा न श्ववृत्त्या कदा चन । । ४.४ । ।

ऋतं उञ्छशिलं ज्ञेयं अमृतं स्यादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् । । ४.५ । ।

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् । । ४.६ । ।

कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा । । ४.७ । ।

चतुर्णां अपि चैतेषां द्विजानां गृहमेधिनाम् ।
ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः । । ४.८ । ।

षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यां एकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति । । ४.९ । ।

वर्तयंश्च शिलोञ्छाभ्यां अग्निहोत्रपरायणः ।
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा । । ४.१० । ।

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन ।
अजिह्मां अशथां शुद्धां जीवेद्ब्राह्मणजीविकाम् । । ४.११ । ।

संतोषं परं आस्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः । । ४.१२ । ।

अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः ।
स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् । । ४.१३ । ।

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् । । ४.१४ । ।

नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा ।
न विद्यमानेष्वर्थेषु नार्त्यां अपि यतस्ततः । । ४.१५ । ।

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् । । ४.१६ । ।

सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ।
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता । । ४.१७ । ।

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यं आचरन्विचरेदिह । । ४.१८ । ।

बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् । । ४.१९ । ।

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते । । ४.२० । ।

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् । । ४.२१ । ।

एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततं इन्द्रियेष्वेव जुह्वति । । ४.२२ । ।

वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिं अक्षयाम् । । ४.२३ । ।

ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा ।
ज्ञानमूलां क्रियां एषां पश्यन्तो ज्ञानचक्षुषा । । ४.२४ । ।

अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि । । ४.२५ । ।

सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः । । ४.२६ । ।

नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान्द्विजः ।
नवान्नं अद्यान्मांसं वा दीर्घं आयुर्जिजीविषुः । । ४.२७ । ।

नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः ।
प्राणानेवात्तुं इच्छन्ति नवान्नामिषगर्धिनः । । ४.२८ । ।

आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः । । ४.२९ । ।

पाषाण्डिनो विकर्मस्थान्बैडालव्रतिकाञ् शठान् ।
हैतुकान्बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् । । ४.३० । ।

वेदविद्याव्रतस्नाताञ् श्रोत्रियान्गृहमेधिनः ।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् । । ४.३१ । ।

शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना ।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः । । ४.३२ । ।

राजतो धनं अन्विच्छेत्संसीदन्स्नातकः क्षुधा ।
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः । । ४.३३ । ।

न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथं चन ।
न जीर्णमलवद्वासा भवेच्च विभवे सति । । ४.३४ । ।

क्ल्प्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान्नित्यं आत्महितेषु च । । ४.३५ । ।

वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले । । ४.३६ । ।

नेक्षेतोद्यन्तं आदित्यं नास्तं यान्तं कदा चन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् । । ४.३७ । ।

न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
न चोदके निरीक्षेत स्वरूपं इति धारणा । । ४.३८ । ।

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् । । ४.३९ । ।

नोपगच्छेत्प्रमत्तोऽपि स्त्रियं आर्तवदर्शने ।
समानशयने चैव न शयीत तया सह । । ४.४० । ।

रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते । । ४.४१ । ।

तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते । । ४.४२ । ।

नाश्नीयाद्भार्यया सार्धं नैनां ईक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् । । ४.४३ । ।

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तां अनावृताम् ।
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः । । ४.४४ । ।

नान्नं अद्यादेकवासा न नग्नः स्नानं आचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे । । ४.४५ । ।

न फालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके कदा चन । । ४.४६ । ।

न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः ।
न नदीतीरं आसाद्य न च पर्वतमस्तके । । ४.४७ । ।

वाय्वग्निविप्रं आदित्यं अपः पश्यंस्तथैव गाः ।
न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् । । ४.४८ । ।

तिरस्कृत्योच्चरेत्काष्ठ लोष्ठपत्रतृणादिना ।
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः । । क्४.४९[५०ं] । ।

मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ संध्यायोश्च यथा दिवा । । क्४.५०[५१ं] । ।

छायायां अन्धकारे वा रात्रावहनि वा द्विजः ।
यथासुखमुखः कुर्यात्प्राणबाधभयेषु च । । क्४.५१[५२ं] । ।

प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् ।
प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः । । क्४.५२[४९ं] । ।

नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् । । ४.५३ । ।

अधस्तान्नोपदध्याच्च न चैनं अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधं आचरेत् । । ४.५४ । ।

नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।
न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम् । । ४.५५ । ।

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तं अन्यद्वा लोहितं वा विषाणि वा । । ४.५६ । ।

नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः । । ४.५७ । ।

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
स्वाध्याये भोजने चैव दक्षिनं पाणिं उद्धरेत् । । ४.५८ । ।

न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् ।
न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः । । ४.५९ । ।

नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् । । ४.६० । ।

न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।
न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः । । ४.६१ । ।

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यं आचरेत् ।
नातिप्रगे नातिसायं न सायं प्रातराशितः । । ४.६२ । ।

न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली । । ४.६३ । ।

न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्] ।
नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् । । ४.६४ । ।

न पादौ धावयेत्कांस्ये कदा चिदपि भाजने ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते । । ४.६५ । ।

उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् ।
उपवीतं अलङ्कारं स्रजं करकं एव च । । ४.६६ । ।

नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः । । ४.६७ । ।

विनीतैस्तु व्रजेन्नित्यं आशुगैर्लक्षणान्वितैः ।
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन्भृशम् । । ४.६८ । ।

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् । । ४.६९ । ।

न मृल्लोष्ठं च मृद्नीयान्न छिन्द्यात्करजैस्तृणम् ।
न कर्म निष्फलं कुर्यान्नायत्यां असुखोदयम् । । ४.७० । ।

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।
स विनाशं व्रजत्याशु सूचकाशुचिरेव च । । ४.७१ । ।

न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् । । ४.७२ । ।

अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् । । ४.७३ । ।

नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने । । ४.७४ । ।

सर्वं च तिलसंबद्धं नाद्यादस्तं इते रवौ ।
न च नग्नः शयीतेह न चोच्छिष्टः क्व चिद्व्रजेत् । । ४.७५ । ।

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
आर्द्रपादस्तु भुञ्जानो दीर्घं आयुरवाप्नुयात् । । ४.७६ । ।

अचक्षुर्विषयं दुर्गं $ न प्रपद्येत कर्हि चित् ।
न विण्मूत्रं उदीक्षेत न बाहुभ्यां नदीं तरेत् । । ४.७७ । ।

अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः ।
न कार्पासास्थि न तुषान्दीर्घं आयुर्जिजीविषुः । । ४.७८ । ।

न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः । । ४.७९ । ।

न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतं आदिशेत् । । ४.८० । ।

यो ह्यस्य धर्मं आचष्टे यश्चैवादिशति व्रतम् ।
सोऽसंवृतं नाम तमः सह तेनैव मज्जति । । ४.८१ । ।

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः । । ४.८२ । ।

केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ।
शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् । । ४.८३ । ।

न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् । । ४.८४ । ।

दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमो वेशो दशवेशसमो नृपः । । ४.८५ । ।

दश सूणासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः । । ४.८६ । ।

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।
स पर्यायेण यातीमान्नरकानेकविंशतिम् । । ४.८७ । ।

तामिस्रं अन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकं एव च । । ४.८८ । ।

संजीवनं महावीचिं तपनं संप्रतापनम् ।
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् । । ४.८९ । ।

लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव लोहदारकं एव च । । ४.९० । ।

एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः । । ४.९१ । ।

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थं एव च । । ४.९२ । ।

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।
पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् । । ४.९३ । ।

ऋषयो दीर्घसंध्यत्वाद्दीर्घं आयुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसं एव च । । ४.९४ । ।

श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् । । ४.९५ । ।

पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि । । ४.९६ । ।

यथाशास्त्रं तु कृत्वैवं उत्सर्गं छन्दसां बहिः ।
विरमेत्पक्षिणीं रात्रिं तदेवैकं अहर्निशम् । । ४.९७ । ।

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् । । ४.९८ । ।

नाविस्पष्टं अधीयीत न शूद्रजनसन्निधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् । । ४.९९ । ।

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि । । ४.१०० । ।

इमान्नित्यं अनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् । । ४.१०१ । ।

कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते । । ४.१०२ । ।

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।
आकालिकं अनध्यायं एतेषु मनुरब्रवीत् । । ४.१०३ । ।

एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायं अनृतौ चाभ्रदर्शने । । ४.१०४ । ।

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
एतानाकालिकान्विद्यादनध्यायानृतावपि । । ४.१०५ । ।

प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा । । ४.१०६ । ।

नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा । । ४.१०७ । ।

अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च । । ४.१०८ । ।

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् । । ४.१०९ । ।