विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । २.१ । । |
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । २.२ । । |
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः । व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः । । २.३ । । |
अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् । यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् । । २.४ । । |
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते । । २.५ । । |
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च । । २.६ । । |
यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः । । २.७ । । |
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै । । २.८ । । |
श्रुतिस्मृत्युदितं धर्मं अनुतिष्ठन्हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् । । २.९ । । |
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । २.१० । । |
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः । । २.११ । । |
वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् । । २.१२ । । |
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः । । २.१३ । । |
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः । । २.१४ । । |
उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः । । २.१५ । । |
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिञ् ज्ञेयो नान्यस्य कस्य चित् । । २.१६ । । |
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । २.१७ । । |
तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते । । २.१८ । । |
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः । । २.१९ । । |
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः । । २.२० । । |
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः । । २.२१ । । |
आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः । । २.२२ । । |
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः । । २.२३ । । |
एताण् द्विजातयो देशान्संश्रयेरन्प्रयत्नतः । शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः । । २.२४ । । |
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत । । २.२५ । । |
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । । २.२६ । । |
गार्भैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानां अपमृज्यते । । २.२७ । । |
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । । २.२८ । । |
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । २.२९ । । |
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते । । २.३० । । |
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् । । २.३१ । । |
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् । । २.३२ । । |
स्त्रीणां सुखोद्यं अक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तं आशीर्वादाभिधानवत् । । २.३३ । । |
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले । । २.३४ । । |
चूडाकर्म द्विजातीनां सर्वेषां एव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् । । २.३५ । । |
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः । । २.३६ । । |
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे । । २.३७ । । |
आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः । । २.३८ । । |
अत ऊर्ध्वं त्रयोऽप्येते यथाकालं असंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः । । २.३९ । । |
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् । ब्राह्मान्यौनांश्च संबन्धान्नाचरेद्ब्राह्मणः सह । । २.४० । । |
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च । । २.४१ । । |
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी । । २.४२ । । |
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा । । २.४३ । । |
कार्पासं उपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २.४४ । । |
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ । पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः । । २.४५ । । |
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः । । २.४६ । । |
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः । । २.४७ । । |
प्रतिगृह्येप्सितं दण्डं उपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि । । २.४८ । । |
भवत्पूर्वं चरेद्भैक्षं उपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् । । २.४९ । । |
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् । । २.५० । । |
समाहृत्य तु तद्भैक्षं यावदन्नं अमायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । २.५१ । । |
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः । । २.५२ । । |
उपस्पृश्य द्विजो नित्यं अन्नं अद्यात्समाहितः । भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । २.५३ । । |
पूजयेदशनं नित्यं अद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः । । २.५४ । । |
पूजितं ह्यशनं नित्यं बलं ऊर्जं च यच्छति । अपूजितं तु तद्भुक्तं उभयं नाशयेदिदम् । । २.५५ । । |
नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा । न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् । । २.५६ । । |
अनारोग्यं अनायुष्यं अस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । २.५७ । । |
ब्राह्मेण विप्रस्तीर्थेन नित्यकालं उपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन । । २.५८ । । |
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । कायं अङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः । । २.५९ । । |
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च । । २.६० । । |
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः । । २.६१ । । |
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः । । २.६२ । । |
उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः । सव्ये प्राचीनावीती निवीती कण्ठसज्जने । । २.६३ । । |
मेखलां अजिनं दण्डं उपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् । । २.६४ । । |
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः । । २.६५ । । |
अमन्त्रिका तु कार्येयं स्त्रीणां आवृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् । । २.६६ । । |
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया । । २.६७ । । |
एष प्रोक्तो द्विजातीनां औपनायनिको विधिः । उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत । । २.६८ । । |
उपनीय गुरुः शिष्यं शिक्षयेच्छौचं आदितः । आचारं अग्निकार्यं च संध्योपासनं एव च । । २.६९ । । |
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रं उदङ्मुखः । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः । । २.७० । । |
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः । । २.७१ । । |
व्यत्यस्तपाणिना कार्यं उपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः । । २.७२ । । |
अध्येष्यमाणं तु गुरुर्नित्यकालं अतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् । । २.७३ । । |
ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यति । । २.७४ । । |
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओंकारं अर्हति । । २.७५ । । |
अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च । । २.७६ । । |
त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः । । २.७७ । । |
एतदक्षरं एतां च जपन्व्याहृतिपूर्विकाम् । संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते । । २.७८ । । |
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते । । २.७९ । । |
एतया र्चा विसंयुक्तः काले च क्रियया स्वया । ब्रह्मक्षत्रियविश्योनिर्गर्हणां याति साधुषु । । २.८० । । |
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् । । २.८१ । । |
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परं अभ्येति वायुभूतः खमूर्तिमान् । । २.८२ । । |
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते । । २.८३ । । |
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः । । २.८४ । । |
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः । । २.८५ । । |
ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् । । २.८६ । । |
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । । २.८७ । । |
इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नं आतिष्ठेद्विद्वान्यन्तेव वाजिनाम् । । २.८८ । । |
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः । । २.८९ । । |
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता । । २.९० । । |
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते । । २.९१ । । |
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिन्जिते जितावेतौ भवतः पञ्चकौ गणौ । । २.९२ । । |
इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति । । २.९३ । । |
न जातु कामः कामानां उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते । । २.९४ । । |
यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् । प्रापणात्सर्वकामानां परित्यागो विशिष्यते । । २.९५ । । |
न तथैतानि शक्यन्ते संनियन्तुं असेवया । विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः । । २.९६ । । |
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् । । २.९७ । । |
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः । । २.९८ । । |
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् । । २.९९ । । |
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम् । । २.१०० । । |
पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीं आर्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । । २.१०१ । । |
पूर्वां संध्यां जपंस्तिष्ठन्नैशं एनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् । । २.१०२ । । |
न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । । २.१०३ । । |
अपां समीपे नियतो नैत्यकं विधिं आस्थितः । सावित्रीं अप्यधीयीत गत्वारण्यं समाहितः । । २.१०४ । । |
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि । । २.१०५ । । |
नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम् । ब्रह्माहुतिहुतं पुण्यं अनध्यायवषट्कृतम् । । २.१०६ । । |
यः स्वाध्यायं अधीतेऽब्दं विधिना नियतः शुचिः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु । । २.१०७ । । |
अग्नीन्धनं भैक्षचर्यां अधःशय्यां गुरोर्हितम् । आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः । । २.१०८ । । |
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः । । २.१०९ । । |
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् । । २.११० । । |
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति । । २.१११ । । |
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजं इवोषरे । । २.११२ । । |
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनां इरिणे वपेत् । । २.११३ । । |
विद्या ब्राह्मणं एत्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा । । २.११४ । । |
यं एव तु शुचिं विद्यान्नियतब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने । । २.११५ । । |