सान्तानिकं यक्ष्यमाणं अध्वगं सार्ववेदसम् । गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः । । ११.१ । । |
न वै तान्स्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान् । निःस्वेभ्यो देयं एतेभ्यो दानं विद्याविशेषतः । । ११.२ । । |
एतेभ्यो हि द्विजाग्र्येभ्यो देयं अन्नं सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयं उच्यते । । ११.३ । । |
सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान्वेदविदुषो यज्ञार्थं चैव दक्षिणाम् । । ११.४ । । |
कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः । । ११.५ । । |
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते । । ११.६ । । |
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुं अर्हति । । ११.७[०६ं] । । |
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् । । ११.८[०७ं] । । |
शक्तः परजने दाता स्वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः । । ११.९[०८ं] । । |
भृत्यानां उपरोधेन यत्करोत्यौर्ध्वदेहिकम् । तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च । । ११.१०[०९ं] । । |
यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि । । ११.११[१०ं] । । |
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः । कुटुम्बात्तस्य तद्द्रव्यं आहरेद्यज्ञसिद्धये । । ११.१२[११ं] । । |
आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः । । ११.१३[१२ं] । । |
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । तयोरपि कुटुम्बाभ्यां आहरेदविचारयन् । । ११.१४[१३ं] । । |
आदाननित्याच्चादातुराहरेदप्रयच्छतः । तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते । । ११.१५[१४ं] । । |
तथाऐव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः । । ११.१६[१५ं] । । |
खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति । । ११.१७[१६ं] । । |
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्युनिष्क्रिययोस्तु स्वं अजीवन्हर्तुं अर्हति । । ११.१८[१७ं] । । |
योऽसाधुभ्योऽर्थं आदाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवं आत्मानं संतारयति तावुभौ । । ११.१९[१८ं] । । |
यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः । अयज्वनां तु यद्वित्तं आसुरस्वं तदुच्यते । । ११.२०[१९ं] । । |
न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा । । ११.२१[२०ं] । । |
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् । । ११.२२[२१ं] । । |
कल्पयित्वास्य वृत्तिं च रक्षेदेनं समन्ततः । राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् । । ११.२३[२२ं] । । |
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते । । ११.२४[२३ं] । । |
याज्ञार्थं अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः । । ११.२५[२४ं] । । |
देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति । । ११.२६[२५ं] । । |
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । क्ल्प्तानां पशुसोमानां निष्कृत्यर्थं असंभवे । । ११.२७[२६ं] । । |
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् । । ११.२८[२७ं] । । |
विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः । । ११.२९[२८ं] । । |
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् । । ११.३०[२९ं] । । |
न ब्राह्मणो वेदयेत किं चिद्राजनि धर्मवित् । स्ववीर्येणैव ताञ् शिष्यान्मानवानपकारिणः । । ११.३१[३०ं] । । |
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् । तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः । । ११.३२[३१ं] । । |
श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः । । ११.३३[३२ं] । । |
क्षत्रियो बाहुवीर्येण तरेदापदं आत्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः । । ११.३४[३३ं] । । |
विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरं ईरयेत् । । ११.३५[३४ं] । । |
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा । । ११.३६[३५ं] । । |
नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । तस्माद्वैतानकुशलो होता स्याद्वेदपारगः । । ११.३७[३६ं] । । |
प्राजापत्यं अदत्त्वाश्वं अग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मणो विभवे सति । । ११.३८[३७ं] । । |
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन । । ११.३९[३८ं] । । |
इन्द्रियाणि यशः स्वर्गं आयुः कीर्तिं प्रजाः पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् । । ११.४०[३९ं] । । |
अग्निहोत्र्यपविध्याग्नीन्ब्राह्मणः कामकारतः । चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् । । ११.४१[४०ं] । । |
ये शूद्रादधिगम्यार्थं अग्निहोत्रं उपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः । । ११.४२[४१ं] । । |
तेषां सततं अज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकं आक्रम्य दाता दुर्गाणि संतरेत् । । ११.४३[४२ं] । । |
अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः । । ११.४४[४३ं] । । |
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् । । ११.४५[४४ं] । । |
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः । । ११.४६[४५ं] । । |
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः । । ११.४७[४६ं] । । |
इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् । । ११.४८[४७ं] । । |
सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः । । ११.४९[४८ं] । । |
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वं आतिरैक्यं तु मिश्रकः । । ११.५०[४९ं] । । |
अन्नहर्तामयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुतां अश्वहारकः । । ११.५१[५०ं] । । |
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा । । ११.५२[५१ं] । । |
चरितव्यं अतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः । । ११.५३[५२ं] । । |
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह । । ११.५४[५३ं] । । |
अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया । । ११.५५[५४ं] । । |
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् । । ११.५६[५५ं] । । |
निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् । । ११.५७[५६ं] । । |
रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः । । ११.५८[५७ं] । । |
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च । । ११.५९[५८ं] । । |
परिवित्तितानुजेऽनूढे परिवेदनं एव च । तयोर्दानं च कन्यायास्तयोरेव च याजनम् । । ११.६०[५९ं] । । |
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागारामदाराणां अपत्यस्य च विक्रयः । । ११.६१[६०ं] । । |
व्रात्यता बान्धवत्यागो भृत्याध्यापनं एव च । भृत्या चाध्ययनादानं अपण्यानां च विक्रयः । । ११.६२[६१ं] । । |
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च । । ११.६३[६२ं] । । |
इन्धनार्थं अशुष्काणां द्रुमाणां अवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा । । ११.६४[६३ं] । । |
अनाहिताग्निता स्तेयं ऋणानां अनपक्रिया । असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया । । ११.६५[६४ं] । । |
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् । । ११.६६[६५ं] । । |
ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः । जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् । । ११.६७[६६ं] । । |
खराश्वोष्ट्रमृगेभानां अजाविकवधस्तथा । संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च । । ११.६८[६७ं] । । |
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयं असत्यस्य च भाषणम् । । ११.६९[६८ं] । । |
कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलैधःकुसुमस्तेयं अधैर्यं च मलावहम् । । ११.७०[६९ं] । । |
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् । यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यङ्निबोधत । । ११.७१[७०ं] । । |
ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् । । ११.७२[७१ं] । । |
लक्ष्यं शस्त्रभृतां वा स्याद्विदुषां इच्छयात्मनः । प्रास्येदात्मानं अग्नौ वा समिद्धे त्रिरवाक्शिराः । । ११.७३[७२ं] । । |
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा । । ११.७४[७३ं] । । |
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रियः । । ११.७५[७४ं] । । |
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालं गृहं वा सपरिच्छदम् । । ११.७६[७५ं] । । |
हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम् । जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् । । ११.७७[७६ं] । । |
कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः । । ११.७८[७७ं] । । |
ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च । । ११.७९[७८ं] । । |
त्रिवारं प्रतिरोद्धा वा सर्वस्वं अवजित्य वा । विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते । । ११.८०[७९ं] । । |
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति । । ११.८१[८०ं] । । |
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वं एनोऽवभृथस्नातो हयमेधे विमुच्यते । । ११.८२[८१ं] । । |
धर्मस्य ब्राह्मणो मूलं अग्रं राजन्य उच्यते । तस्मात्समागमे तेषां एनो विख्याप्य शुध्यति । । ११.८३[८२ं] । । |
ब्रह्मणः संभवेनैव देवानां अपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् । । ११.८४[८३ं] । । |
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् । । ११.८५[८४ं] । । |
अतोऽन्यतमं आस्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया । । ११.८६[८५ं] । । |
हत्वा गर्भं अविज्ञातं एतदेव व्रतं चरेत् । राजन्यवैश्यौ चेजानावात्रेयीं एव च स्त्रियम् । । ११.८७[८६ं] । । |
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् । । ११.८८[८७ं] । । |
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते । । ११.८९[८८ं] । । |
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः । । ११.९०[८९ं] । । |
गोमूत्रं अग्निवर्णं वा पिबेदुदकं एव वा । पयो घृतं वा मरणाद्गोशकृद्रसं एव वा । । ११.९१[९०ं] । । |
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी । । ११.९२[९१ं] । । |
सुरा वै मलं अन्नानां पाप्मा च मलं उच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् । । ११.९३[९२ं] । । |
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः । । ११.९४[९३ं] । । |
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानां अश्नता हविः । । ११.९५[९४ं] । । |
अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्यं अन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः । । ११.९६[९५ं] । । |
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति । । ११.९७[९६ं] । । |
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् । । ११.९८[९७ं] । । |
सुवर्णस्तेयकृद्विप्रो राजानं अभिगम्य तु । स्वकर्म ख्यापयन्ब्रूयान्मां भवाननुशास्त्विति । । ११.९९[९८ं] । । |
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु । । ११.१००[९९ं] । । |
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् । । ११.१०१[१००ं] । । |
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् । । ११.१०२[१०१ं] । । |
गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मीं ज्वलन्तीं स्वाश्लिष्येन्मृत्युना स विशुध्यति । । ११.१०३[१०२ं] । । |
स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ । नैरृतीं दिशं आतिष्ठेदा निपातादजिह्मगः । । ११.१०४[१०३ं] । । |
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रं अब्दं एकं समाहितः । । ११.१०५[१०४ं] । । |
चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये । । ११.१०६[१०५ं] । । |
एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनस्त्वेवं एभिर्नानाविधैर्व्रतैः । । ११.१०७[१०६ं] । । |
उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः । । ११.१०८[१०७ं] । । |
चतुर्थकालं अश्नीयादक्षारलवणं मितम् । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः । । ११.१०९[१०८ं] । । |
दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् । । ११.११०[१०९ं] । । |
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः । । ११.१११[११०ं] । । |
आतुरां अभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नं वा सर्वोपायैर्विमोचयेत् । । ११.११२[१११ं] । । |
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः । । ११.११३[११२ं] । । |
आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले । भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् । । ११.११४[११३ं] । । |
अनेन विधिना यस्तु गोघ्नो गां अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति । । ११.११५[११४ं] । । |
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् । । ११.११६[११५ं] । । |