मनुस्मृतिः/नवमोध्यायः - 1

 

पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान्वक्ष्यामि शाश्वतान् । । ९.१ । ।

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे । । ९.२ । ।

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यं अर्हति । । ९.३ । ।

कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।
मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता । । ९.४ । ।

सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर्हि कुलयोः शोकं आवहेयुररक्षिताः । । ९.५ । ।

इमं हि सर्ववर्णानां पश्यन्तो धर्मं उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि । । ९.६ । ।

स्वां प्रसूतिं चरित्रं च कुलं आत्मानं एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन्हि रक्षति । । ९.७ । ।

पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः । । ९.८ । ।

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः । । ९.९ । ।

न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् । । ९.१० । ।

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे । । ९.११ । ।

अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानं आत्मना यास्तु रक्षेयुस्ताः सुरक्षिताः । । ९.१२ । ।

पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् । । ९.१३ । ।

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते । । ९.१४ । ।

पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।
रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते । । ९.१५ । ।

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नं आतिष्ठेत्पुरुषो रक्षणं प्रति । । ९.१६ । ।

शय्यासनं अलङ्कारं कामं क्रोधं अनार्जवं ंःअनार्यताम्] ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् । । ९.१७ । ।

नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः ।
निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्योऽनृतं इति स्थितिः । । ९.१८ । ।

तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः । । ९.१९ । ।

यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।
तन्मे रेतः पिता वृङ्क्तां इत्यस्यैतन्निदर्शनम् । । ९.२० । ।

ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा ।
तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते । । ९.२१ । ।

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा । । ९.२२ । ।

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् । । ९.२३ । ।

एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः ।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः । । ९.२४ । ।

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।
प्रेत्येह च सुखोदर्कान्प्रजाधर्मान्निबोधत । । ९.२५ । ।

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन । । ९.२६ । ।

उत्पादनं अपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् । । ९.२७ । ।

अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः पितॄणां आत्मनश्च ह । । ९.२८ । ।

पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते । । ९.२९ । ।

व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते । । ९.३० । ।

पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।
विश्वजन्यं इमं पुण्यं उपन्यासं निबोधत । । ९.३१ । ।

भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ।
आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः । । ९.३२ । ।

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् । । ९.३३ । ।

विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते । । ९.३४ । ।

बीजस्य चैव योन्याश्च बीजं उत्कृष्टं उच्यते ।
सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता । । ९.३५ । ।

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः । । ९.३६ । ।

इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।
न च योनिगुणान्कांश्चिद्बीजं पुष्यति पुष्टिषु । । ९.३७ । ।

भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।
नानारूपाणि जायन्ते बीजानीह स्वभावतः । । ९.३८ । ।

व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।
यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा । । ९.३९ । ।

अन्यदुप्तं जातं अन्यदित्येतन्नोपपद्यते ।
उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति । । ९.४० । ।

तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति । । ९.४१ । ।

अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे । । ९.४२ । ।

नश्यतीषुर्यथा विद्धः खे विद्धं अनुविध्यतः ।
तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे । । ९.४३ । ।

पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।
स्थाणुच्छेदस्य केदारं आहुः शाल्यवतो मृगम् । । ९.४४ । ।

एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।
विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना । । ९.४५ । ।

न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते ।
एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् । । ९.४६ । ।

सकृदंशो निपतति सकृत्कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत् । । ९.४७ । ।

यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि । । ९.४८ । ।

येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् । । ९.४९ । ।

यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनां एव ते वत्सा मोघं स्कन्दितं आर्षभम् । । ९.५० । ।

तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
कुर्वन्ति क्षेत्रिणां अर्थं न बीजी लभते फलम् । । ९.५१ । ।

फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणां अर्थो बीजाद्योनिर्गलीयसी । । ९.५२ । ।

क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत्प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च । । ९.५३ । ।

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तद्बीजं न वप्ता लभते फलम् । । ९.५४ । ।

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति । । ९.५५ । ।

एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।
अतः परं प्रवक्ष्यामि योषितां धर्मं आपदि । । ९.५६ । ।

भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा ।
यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता । । ९.५७ । ।

ज्येष्ठो यवीयसो भार्यां यवीयान्वाग्रजस्त्रियम् ।
पतितौ भवतो गत्वा नियुक्तावप्यनापदि । । ९.५८ । ।

देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये । । ९.५९ । ।

विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकं उत्पादयेत्पुत्रं न द्वितीयं कथं चन । । ९.६० । ।

द्वितीयं एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः । । ९.६१ । ।

विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।
गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् । । ९.६२ । ।

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।
तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ । । ९.६३ । ।

नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम् । । ९.६४ । ।

नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् ।
न विवाहविधावुक्तं विधवावेदनं पुनः । । ९.६५ । ।

अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणां अपि प्रोक्तो वेने राज्यं प्रशासति । । ९.६६ । ।

स महीं अखिलां भुञ्जन्राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः । । ९.६७ । ।

ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् ।
नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः । । ९.६८ । ।

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तां अनेन विधानेन निजो विन्देत देवरः । । ९.६९ । ।

यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेता प्रसवात्सकृत्सकृदृतावृतौ । । ९.७० । ।

न दत्त्वा कस्य चित्कन्यां पुनर्दद्याद्विचक्षणः ।
दत्त्वा पुनः प्रयच्छन्हि प्राप्नोति पुरुषानृतम् । । ९.७१ । ।

विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् । । ९.७२ । ।

यस्तु दोषवतीं कन्यां अनाख्यायोपपादयेत् ।
तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः । । ९.७३ । ।

विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः ।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि । । ९.७४ । ।

विधाय प्रोषिते वृत्तिं जीवेन्नियमं आस्थिता ।
प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः । । ९.७५ । ।

प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः ।
विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् । । ९.७६ । ।

संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् । । ९.७७ । ।

अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तं एव वा ।
सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा । । ९.७८ । ।

उन्मत्तं पतितं क्लीबं अबीजं पापरोगिणम् ।
न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् । । ९.७९ । ।

मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा । । ९.८० । ।

वन्ध्याष्टमेऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी । । ९.८१ । ।

या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् । । ९.८२ । ।

अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ । । ९.८३ । ।

प्रतिषिद्धापि चेद्या तु मद्यं अभ्युदयेष्वपि ।
प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् । । ९.८४ । ।

यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः ।
तासां वर्णक्रमेण स्याज्ज्येष्ठ्यं पूजा च वेश्म च । । ९.८५ । ।

भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथं चन । । ९.८६ । ।

यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः । । ९.८७ । ।

उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तां अपि तां तस्मै कन्यां दद्याद्यथाविधि । । ९.८८ । ।

कामं आ मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि ।
न चैवैनां प्रयच्चेत्तु गुणहीनाय कर्हि चित् । । ९.८९ । ।

त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् । । ९.९० । ।

अदीयमाना भर्तारं अधिगच्छेद्यदि स्वयम् ।
नैनः किं चिदवाप्नोति न च यं साधिगच्छति । । ९.९१ । ।

अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् । । ९.९२ । ।

पित्रे न दद्याच्छुल्कं तु कन्यां ऋतुमतीं हरन् ।
स च स्वाम्यादतिक्रामेदृतूनां प्रतिरोधनात् । । ९.९३ । ।

त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः । । ९.९४ । ।

देवदत्तां पतिर्भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान्नित्यं देवानां प्रियं आचरन् । । ९.९५ । ।

प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः ।
तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः । । ९.९६ । ।

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते । । ९.९७ । ।

आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् ।
शुल्कं हि गृह्णन्कुरुते छन्नं दुहितृविक्रयम् । । ९.९८ । ।

एतत्तु न परे चक्रुर्नापरे जातु साधवः ।
यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते । । ९.९९ । ।

नानुशुश्रुम जात्वेतत्पूर्वेष्वपि हि जन्मसु ।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् । । ९.१०० । ।

अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः । । ९.१०१ । ।

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नाभिचरेतां तौ वियुक्तावितरेतरम् । । ९.१०२ । ।

एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत । । ९.१०३ । ।

ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
भजेरन्पैतृकं रिक्थं अनीशास्ते हि जीवतोः । । ९.१०४ । ।

ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनं अशेषतः ।
शेषास्तं उपजीवेयुर्यथैव पितरं तथा । । ९.१०५ । ।

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणां अनृणश्चैव स तस्मात्सर्वं अर्हति । । ९.१०६ । ।

यस्मिन्नृणं संनयति येन चानन्त्यं अश्नुते ।
स एव धर्मजः पुत्रः कामजानितरान्विदुः । । ९.१०७ । ।

पितेव पालयेत्पूत्रान्ज्येष्ठो भ्रातॄण् यवीयसः ।
पुत्रवच्चापि वर्तेरन्ज्येष्ठे भ्रातरि धर्मतः । । ९.१०८ । ।

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः । । ९.१०९ । ।

यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः ।
अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् । । ९.११० । ।

एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया ।
पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया । । ९.१११ । ।

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोऽर्धं मध्यमस्य स्यात्तुरीयं तु यवीयसः । । ९.११२ । ।

ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम् । । ९.११३ । ।

सर्वेषां धनजातानां आददीताग्र्यं अग्रजः ।
यच्च सातिशयं किं चिद्दशतश्चाप्नुयाद्वरम् । । ९.११४ । ।

उद्धारो न दशस्वस्ति संपन्नानां स्वकर्मसु ।
यत्किं चिदेव देयं तु ज्यायसे मानवर्धनम् । । ९.११५ । ।

एवं समुद्धृतोद्धारे समानंशान्प्रकल्पयेत् ।
उद्धारेऽनुद्धृते त्वेषां इयं स्यादंशकल्पना । । ९.११६ । ।

एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ।
अंशं अंशं यवीयांस इति धर्मो व्यवस्थितः । । ९.११७ । ।

स्वेभ्योऽंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् ।
स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः । । ९.११८ । ।

अजाविकं सैकशफं न जातु विषमं भजेत् ।
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते । । ९.११९ । ।

यवीयाञ् ज्येष्ठभार्यायां पुत्रं उत्पादयेद्यदि ।
समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः । । ९.१२० । ।

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
पिता प्रधानं प्रजने तस्माद्धर्मेण तं भजेत् । । ९.१२१ । ।

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
कथं तत्र विभागः स्यादिति चेत्संशयो भवेत् । । ९.१२२ । ।

एकं वृषभं उद्धारं संहरेत स पूर्वजः ।
ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः । । ९.१२३ । ।

ज्येष्ठस्तु जातो ज्येष्ठायां हरेद्वृषभषोडशाः ।
ततः स्वमातृतः शेषा भजेरन्निति धारणा । । ९.१२४ । ।

सदृशस्त्रीषु जातानां पुत्राणां अविशेषतः ।
न मातृतो ज्यैष्ठ्यं अस्ति जन्मतो ज्यैष्ठ्यं उच्यते । । ९.१२५ । ।

जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् ।
यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता । । ९.१२६ । ।

अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् । । ९.१२७ । ।

अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः ।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः । । ९.१२८ । ।

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् । । ९.१२९ । ।

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यां आत्मनि तिष्ठन्त्यां कथं अन्यो धनं हरेत् । । ९.१३० । ।

मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः ।
दौहित्र एव च हरेदपुत्रस्याखिलं धनम् । । ९.१३१ । ।

दौहित्रो ह्यखिलं रिक्थं अपुत्रस्य पितुर्हरेत् ।
स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च । । ९.१३२ । ।

पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः ।
तयोर्हि मातापितरौ संभूतौ तस्य देहतः । । ९.१३३ । ।

पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः । । ९.१३४ । ।

अपुत्रायां मृतायां तु पुत्रिकायां कथं चन ।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् । । ९.१३५ । ।

अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् ।
पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् । । ९.१३६ । ।

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यं अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् । । ९.१३७ । ।

पुंनाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।
तस्मात्पुत्र इति प्रोक्तः स्वयं एव स्वयंभुवा । । ९.१३८ । ।

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् । । ९.१३९ । ।

मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः । । ९.१४० । ।