मनुं एकाग्रं आसीनं अभिगम्य महर्षयः । प्रतिपूज्य यथान्यायं इदं वचनं अब्रुवन् । । १.१ । । |
भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुं अर्हसि । । १.२ । । |
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । । |
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ् श्रूयतां इति । । १.४ । । |
आसीदिदं तमोभूतं अप्रज्ञातं अलक्षणम् । अप्रतर्क्यं अविज्ञेयं प्रसुप्तं इव सर्वतः । । १.५ । । |
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः । । १.६ । । |
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयं उद्बभौ । । १.७ । । |
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यं अवासृजत् । । १.८ । । |
तदण्डं अभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । । १.९ । । |
आपो नरा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । । १.१० । । |
यत्तत्कारणं अव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते । । १.११ । । |
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयं एवात्मनो ध्यानात्तदण्डं अकरोद्द्विधा । । १.१२ । । |
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् । । १.१३ । । |
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहंकारं अभिमन्तारं ईश्वरम् । । १.१४ । । |
महान्तं एव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च । । १.१५ । । |
तेषां त्ववयवान्सूक्ष्मान्षण्णां अप्यमितौजसाम् । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे । । १.१६ । । |
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरं इत्याहुस्तस्य मूर्तिं मनीषिणः । । १.१७ । । |
तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् । । १.१८ । । |
तेषां इदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् । । १.१९ । । |
आद्याद्यस्य गुणं त्वेषां अवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः । । १.२० । । |
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । । १.२१ । । |
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् । । १.२२ । । |
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थं ऋग्यजुःसामलक्षणम् । । १.२३ । । |
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराञ् शैलान्समानि विषमानि च । । १.२४ । । |
तपो वाचं रतिं चैव कामं च क्रोधं एव च । सृष्टिं ससर्ज चैवेमां स्रष्टुं इच्छन्निमाः प्रजाः । । १.२५ । । |
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः । । १.२६ । । |
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धं इदं सर्वं संभवत्यनुपूर्वशः । । १.२७ । । |
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः । । १.२८ । । |
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयं आविशत् । । १.२९ । । |
यथा र्तुलिङ्गान्यृतवः स्वयं एव र्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः । । १.३० । । |
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् । । १.३१ । । |
द्विधा कृत्वात्मनो देहं अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजं असृजत्प्रभुः । । १.३२ । । |
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः । । १.३३ । । |
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन्प्रजानां असृजं महर्षीनादितो दश । । १.३४ । । |
मरीचिं अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदं एव च । । १.३५ । । |
एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षींश्चामितौजसः । । १.३६ । । |
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणांश्च पृथग्गणम् । । १.३७ । । |
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च । । १.३८ । । |
किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः । । १.३९ । । |
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् । । १.४० । । |